Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 68

117 Mantra
12/68
Devata- कृषीवलाः कवयो वा देवताः Rishi- विश्वावसुर्ऋषिः Chhand- विराडार्षी Swara- धैवतः
Mantra with Swara
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म्। गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ऽइत्सृ॒ण्यः प॒क्वमेया॑त्॥६८॥

यु॒नक्त॑। सीरा॑। वि। यु॒गा। त॒नु॒ध्व॒म्। कृ॒ते। योनौ॑। व॒प॒त॒। इ॒ह। बीज॑म्। गि॒रा। च॒। श्रु॒ष्टिः। सभ॑रा॒ इति॒ सऽभ॑राः। अस॑त्। नः॒। नेदी॑यः। इत्। सृ॒ण्यः᳖। प॒क्वम्। आ। इ॒या॒त् ॥६८ ॥

Mantra without Swara
युनक्त सीरा वि युगा तनुध्वङ्कृते योनौ वपतेह बीजम् । गिरा च श्रुष्टिः सभराऽअसन्नो नेदीयऽइत्सृण्यः पक्वमेयात् ॥

युनक्त। सीरा। वि। युगा। तनुध्वम्। कृते। योनौ। वपत। इह। बीजम्। गिरा। च। श्रुष्टिः। सभरा इति सऽभराः। असत्। नः। नेदीयः। इत्। सृण्यः। पक्वम्। आ। इयात्॥६८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(युनक्त) युग्ध्वम् (सीरा) हलादीनि कृष्युपकरणानि नाडीर्वा (वि) विविधार्थे (युगा) युगानि (तनुध्वम्) विस्तृणीत् (कृते) हलादिभिः कर्षिते योगाङ्गैर्निष्पादितेऽन्तःकरणे वा (योनौ) क्षेत्रे (वपत) (इह) अस्यां भूमौ बुद्धौ वा (बीजम्) यवादिकं सिद्धिमूलं वा (गिरा) कृषियोगकर्मोपयुक्त्या
सुशिक्षितया वाचा (च) स्वसुविचारेण (श्रुष्टिः) शीघ्रम्। श्रुष्टीति क्षिप्रनामाशु अष्टीति ॥ निरु० ६। १२।। (सभराः) समानधारणपोषणाः (असत्) अस्तु (नः) अस्मान् (नेदीयः) अतिशयेनान्तिकम् (इत्) एव (सृण्यः) याः क्षेत्रयोगान् गता यवादिजातयः (पक्वम्) (आ) (इयात्) प्राप्नुयात् ।। ६८।।
[ हे मनुष्याः ! यथा धीराः कवयः सीरा
Essence
हे मनुष्याः ! यूयं विद्वद्भ्यः कृषीवलेभ्यश्च कृषियोगकर्मशिक्षां प्राप्यानेकानि साधनानि सम्पाद्य कृषिं योगं च कुरुत।

[याः सृण्यः सन्ति ताभ्यो यत्........पक्वं भवेत् तदिदेव न एयात्]

तस्माद्यद्यत्पक्वं स्यात् तत्तद् गृहीत्वोपभुङ्ध्वं भोजयत वा ।। १२। ६८।।
Subject
पुनस्तमेव विषयमाह॥
Meaning of Anvay
हे मनुष्याः! यूयमिह साधनानि वितनुध्वं सीरा युगा युनक्त। कृते योनौ बीजं वपत गिरा च सभराः श्रुष्टिर्भवत याः सृण्यः सन्ति ताभ्यो यन्नेदीयोऽसत् पक्वं भवेत्तदिदेव न एयात्॥

[ योगविद्या ]

सपदार्थान्वयः -- हे मनुष्याः ! यूयमिह अस्यां बुद्धौ साधनानि वि+तनुध्वं विस्तृणीत, सीरा नाडीः युगा युगानि युनक्त युग्ध्वम्, कृते योगाङ्गैर्निष्पादितेऽन्तःकरणे योनौ क्षेत्रे बीजं सिद्धिमूलं वपत; गिरा योगकर्मोपयुक्तया सुशिक्षितया वाचा च सुविचारेण सभराः समानधारणपोषणाः श्रुष्टिः शीघ्रं भवत । याः सृण्यः या योगान् गता सन्ति, ताभ्यो यन्नेदीयः अतिशयेनाऽन्तिकम् असत् अस्तु; पक्वं भवेत् तदिद्=एव नः अस्मान् आ+इयात् प्राप्नुयात्॥

[कृषिविद्या]
सपदार्थान्वयः - हे मनुष्याः ! यूयमिह अस्यां भूमौ साधनानि वि+तनुध्वं विस्तृणीत, सीरा हलादीनि कृष्युपकरणानि युगा युगानि युनक्त युग्ध्वम्। कृते हलादिभिः कर्षिते, योनौ क्षेत्रे बीजं यवादिकं वपत। गिरा कृषिकर्मोपयुक्त्या सुशिक्षितया वाचा च स्वसुविचारेण सभराः समानधारणपोषणाः श्रुष्टिः शीघ्रं भवत। याः सृण्यः याः क्षेत्रान् गता यवादिजातयः सन्ति, ताभ्यो यन्नेदीयः अतिशयेनाऽन्तिकम् असत् अस्तु, पक्वं भवेत्तदिद्=एव नः अस्मान् आ+इयात् प्राप्नुयात् ॥
[हे मनुष्याः! यूयमिह साधनानि वितनुध्वं, सीरा युगा युनक्त]
Meaning of Essence
युनक्त=कृषिं योगं च कुरुत॥
Special
विश्वावसुः। कृषीवलाः, कवयो वा=विद्वांसो वा। विराडार्षी त्रिष्टुप्। धैवतः।।