Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 67

117 Mantra
12/67
Devata- कृषीवलाः कवयो वा देवताः Rishi- विश्वावसुर्ऋषिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वित॑न्वते॒ पृथ॑क्। धीरा॑ दे॒वेषु॑ सुम्न॒या॥६७॥

सीरा॑। यु॒ञ्ज॒न्ति॒। क॒वयः॑। यु॒गा। वि। त॒न्व॒ते॒। पृथ॑क्। धीराः॑। दे॒वेषु॑। सु॒म्न॒येति॑ सुम्न॒ऽया ॥६७ ॥

Mantra without Swara
सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक् । धीरा देवेषु सूम्नया ॥

सीरा। युञ्जन्ति। कवयः। युगा। वि। तन्वते। पृथक्। धीराः। देवेषु। सुम्नयेति सुम्नऽया॥६७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सीरा) सीराणि=हलानि (युञ्जन्ति) युञ्जन्तु (कवयः) मेधाविनः। कविरिति मेधाविना०।। ३ । १५ ।। (युगा) युगानि (वि) (तन्वते) विस्तृणन्ति (पृथक्) (धीराः) ध्यानवन्तः (देवेषु) विद्वत्सु (सुम्नया) सुम्नेन=सुखेन। अत्र तृतीयैकवचनस्यायादेशः ।। ६७।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः।। मनुष्यैरिह विद्वच्छिक्षया कृषिकर्मोन्नेयम्।
यथा योगिनो नाडीषु परमेश्वरं समाधियोगेनोपकुर्वन्ति तथैव कृषिकर्मद्वारा सुखोपयोगः कर्त्तव्यः।। १२। ६७।।
Subject
अथ कृषियोगविद्यम् आह॥
Meaning of Anvay
हे मनुष्याः! यथा धीराः कवयः सीरा युगा च युञ्जन्ति सुम्नया देवेषु पृथग् वितन्वते तथा सर्वैरेतदनुष्ठेयम् ।। ६७।।
सपदार्थान्वयः-- हे मनुष्याः! यथा धीराः ध्यानवन्तः कवयः मेधाविनः सीरा सीराणि=हलानि युगा युगानि च युञ्जन्ति युञ्जन्तु, सुम्नया सुम्नेन=सुखेन देवेषु विद्वत्सु पृथक् वि+तन्वते विस्तृणन्ति, तथा सर्वैरेतदनुष्ठेयम् ।। १२। ६७।।
[हे मनुष्याः! यथा धीराः कवयः युगा च युञ्जन्ति, सुम्नया..........वितन्वते]
Meaning of Essence
धीराः=योगिनः। कवयः=विद्वांसः। सीरा=नाड्यः। युगा=समाधियोगेन।
Special
विश्वावसुः। कृषीवलाः कवयः=विद्वांसः। गायत्री । षड्जः ।।