Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 64

117 Mantra
12/64
Devata- निर्ऋतिर्देवता Rishi- मधुच्छन्दा ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यस्या॑स्ते घोरऽआ॒सञ्जु॒होम्ये॒षां ब॒न्धाना॑मव॒सर्ज॑नाय। यां त्वा॒ जनो॒ भूमि॒रिति॑ प्र॒मन्द॑ते॒ निर्ऋ॑तिं त्वा॒हं परि॑ वेद वि॒श्वतः॑॥६४॥

यस्याः॑। ते॒। घो॒रे॒। आ॒सन्। जु॒होमि॑। ए॒षाम्। ब॒न्धाना॑म्। अ॒व॒सर्ज॑ना॒येत्य॑व॒ऽसर्ज॑नाय। याम्। त्वा॒। जनः॑। भूमिः॑। इति॑। प्र॒मन्द॑त॒ इति॑ प्र॒ऽमन्द॑ते। निर्ऋ॑ति॒मिति॒ निःऽऋ॑तिम्। त्वा॒। अ॒हम्। परि॑। वे॒द॒। वि॒श्वतः॑ ॥६४ ॥

Mantra without Swara
यस्यास्ते घोर आसन्जुहोम्येषाम्बन्धानामवसर्जनाय । यान्त्वा जनो भूमिरिति प्रमन्दते निरृतिं त्वाहम्परि वेद विश्वतः ॥

यस्याः। ते। घोरे। आसन्। जुहोमि। एषाम्। बन्धानाम्। अवसर्जनायेत्यवऽसर्जनाय। याम्। त्वा। जनः। भूमिः। इति। प्रमन्दत इति प्रऽमन्दते। निर्ऋतिमिति निःऽऋतिम्। त्वा। अहम्। परि। वेद। विश्वतः॥६४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यस्याः) सुव्रतायाः स्त्रियाः (ते) तव (घोरे) भयानके (आसन्) आस्ये=मुखे (जुहोमि) ददामि (एषाम्) वर्त्तमानानाम् (बन्धानाम्) दुःखकारकत्वेन निरोधकानाम् (अवसर्जनाय) त्यागाय (याम्) (त्वा) त्वाम् (जनः) (भूमिः) (इति) इव (प्रमन्दते) आनन्दयति (निर्ऋतिम्) भूमिमिव (त्वा) (अहम्) (परि) सर्वतः (वेद) जानीयाम् (विश्वतः) सर्वतः ।। ६४।।
Essence
अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा पतयः स्वानन्दाय स्त्रियो गृह्णन्ति, तथैव तस्मै स्त्रियोऽपि पतीन् गृह्णीयुः। अत्र गृहाश्रमे पतिव्रता स्त्री स्त्रीव्रतः पतिश्च सुखनिधिरिव भवति।
[भूमिरिति यां त्वा.......तामहं.........निर्ऋतिमिव त्वां परिवेद]
क्षेत्रभूता स्त्री, बीजरूपः पुमान्।
[तात्पर्यमाह--]
यद्येतयोः शुद्धयोर्बलवतोः समागमेनोत्तमाः विविधाः प्रजा जायेरँस्तर्हि सर्वदा भद्रं भवतीति वेद्यम्।। १२ । ६४ ।।
Subject
कस्मै प्रयोजनाय दम्पती भवेतामित्युपदिश्यते ॥
Meaning of Anvay
हे घोरे पत्नि ! यस्यास्त आसन्नेषां बन्धानामवसर्जनायामृतात्मकमन्नादिकं जुहोमि यो जनो भूमिरिति यां त्वा प्रमन्दते तामहं विश्वतो निर्ऋतिमिव त्वा परि वेद सा त्वमित्थं मां विद्धि।। १२। ६४।।
सपदार्थान्वयः -- हे घोरे! भयानके ! पत्नि! यस्याः सुव्रतायाः स्त्रियाः ते तव आसन् आस्ये=मुखे एषां वर्त्तमानानां बन्धानां दुःखकारकत्वेन निरोधकानाम् अवसर्जनाय त्यागाय अमृतात्मकमन्नादिकं जुहोमि ददामि, यो जनो भूमिरिति इव यां त्वा त्वां प्र+मन्दते आनन्दयति, तामहं विश्वतः सर्वतः निर्ऋतिः भूमिम् इव त्वा त्वां परि+वेद सर्वतो जानीयाम्, सा त्वमित्थं मां विद्धि ।। १२ । ६४॥
[हे पत्नि! यस्यास्ते आसन्नेषां बन्धानामवसर्जनाय जुहोमि]
Meaning of Essence
निर्ऋतिः=क्षेत्रभूता भूमिः।।
Special
मधुच्छन्दाः। निर्ऋत्रिः=स्त्रीः। आर्षी त्रिष्टुप्। धैवतः।।