Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 63

117 Mantra
12/63
Devata- निर्ऋतिर्देवता Rishi- मधुच्छन्दा ऋषिः Chhand- भुरिगार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
नमः॒ सु ते॑ निर्ऋते तिग्मतेजोऽय॒स्मयं॒ विचृ॑ता ब॒न्धमे॒तम्। य॒मेन॒ त्वं य॒म्या सं॑विदा॒नोत्त॒मे नाके॒ऽअधि॑ रोहयैनम्॥६३॥

नमः। सु। ते॒। नि॒र्ऋ॒त॒ इति॑ निःऽऋते। ति॒ग्म॒ते॒ज॒ इति॑ तिग्मऽतेजः। अ॒य॒स्मय॑म्। वि। चृ॒त॒। ब॒न्धम्। ए॒तम्। य॒मेन॑। त्वम्। य॒म्या। सं॒वि॒दा॒नेति॑ सम्ऽविदा॒ना। उ॒त्त॒म इत्यु॑त्ऽत॒मे। नाके॑। अधि॑। रो॒ह॒य॒। ए॒न॒म् ॥६३ ॥

Mantra without Swara
नमः सु ते निरृते तिग्मतेजो यस्मयँ वि चृता बन्धमेतम् । यमेन त्वँयम्या सँविदानोत्तमे नाके अधि रोहयैनम् ॥

नमः। सु। ते। निर्ऋत इति निःऽऋते। तिग्मतेज इति तिग्मऽतेजः। अयस्मयम्। वि। चृत। बन्धम्। एतम्। यमेन। त्वम्। यम्या। संविदानेति सम्ऽविदाना। उत्तम इत्युत्ऽतमे। नाके। अधि। रोहय। एनम्॥६३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(नमः) अन्नादिकम् (सु) (ते) तव (निर्ऋते) नितरामृतं=सत्यं यस्यां तत्सम्बुद्धौ (तिग्मतेजः) तीव्राणि तेजांसि यस्मात्तत् (अयस्मयम्) सुवर्णादिप्रकृतम। अय इति हिरण्यना०॥ निघं० १ । २ ॥ (वि) (चृत) विमुञ्च । द्व्यचोऽतस्तिङ इति दीर्घः (बन्धम्) बध्नाति येन तम् (एतम्) (यमेन) न्यायाधीशेन (त्वम्) (यम्या) न्यायकर्त्र्या (संविदाना) सम्यक्कृतप्रतिज्ञा (उत्तमे) (नाके) आनन्दे भोक्तव्ये सति (अधि) (रोहय) (एनम्) ।। ६३।।
Essence
हे स्त्रियः! यूयं यथेयं पृथिवी तेजः सुवर्णान्नादिसम्बन्धाऽस्ति, तथा भवत।
[यमेन यम्या च सह संविदाना सती]
युष्माकं पतयो न्यायाधीशा भूत्वा सापराधानपराधिनां सत्यन्यायेन विवेचनं कृत्वा सापराधान् दण्डयन्ति, निरपराधिनः सत्कुर्वन्ति--
[एनं पतिमुत्तमे नाकेऽधिरोहय]
युष्मभ्यमनुत्तमानानन्दान् प्रददति; तथा यूयमपि भवत ।। १२ । ६३।।
Subject
पुनरेताः कथं भवेयुरित्याह ॥
Meaning of Anvay
हे निर्ऋते! यस्यास्ते तिग्मतेजोऽयस्मयं नमोऽस्ति सा त्वमेतं बन्धं सुविचृत। यमेन यम्या सह च संविदाना सत्येनं पतिमुत्तमे नाकेऽधिरोहय ।। ६३।।

सपदार्थान्वयः-- हे निर्ॠते! नितरामृतं=सत्यं यस्यां तत्सम्बुद्धौ! यस्यास्ते तव तिग्मतेजः तीव्राणि तेजांसि यस्मात्तत्, अयस्मयं सुवर्णादिप्रकृतं नमः अन्नादिकम् अस्ति, सा त्वमेतं बन्धं बध्नाति येन तम्, सु+वि+चृत विमुञ्च। यमेन न्यायाधीशेन यम्या न्यायकर्त्र्या सह च संविदाना सम्यक् कृतप्रतिज्ञा सत्येनं पतिमुत्तमे नाके आनन्दे भोक्तव्ये सति अधि+रोहय ।। १२ । ६३ ॥
[हे निर्ऋते! यस्यास्ते तिग्मतेजोऽयस्मयं नमोऽस्ति]
Special
मधुच्छन्दाः । निर्ऋतिः=स्त्री । भुरिगार्षी पङ्क्तिः। पञ्चमः॥