Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 61

117 Mantra
12/61
Devata- पत्नी देवता Rishi- मधुच्छन्दा ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
मा॒तेव॑ पुत्रं पृ॑थि॒वी पु॑री॒ष्यम॒ग्नि स्वे योना॑वभारु॒खा। तां विश्वै॑र्दे॒वैर्ऋ॒तुभिः॑ संविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्म्मा॒ वि मु॑ञ्चतु॥६१॥

मा॒तेवेति॑ मा॒ताऽइ॑व। पु॒त्रम्। पृ॒थि॒वी। पु॒री॒ष्य᳖म्। अ॒ग्निम्। स्वे। यौनौ॑। अ॒भाः॒। उ॒खा। ताम्। विश्वैः॑। दे॒वैः॒। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। सं॒वि॒दा॒न इति॑ सम्ऽविदा॒नः। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। वि॒श्वक॒र्म्मेति॑ वि॒श्वऽक॑र्मा। वि। मु॒ञ्च॒तु॒ ॥६१ ॥

Mantra without Swara
मातेव पुत्रम्पृथिवी पुरीष्यमग्निँ स्वे योनावभारुखा । ता विश्वैर्देवैरृतुभिः सँविदानः प्रजापतिर्विश्वकर्मा वि मुञ्चतु ॥

मातेवेति माताऽइव। पुत्रम्। पृथिवी। पुरीष्यम्। अग्निम्। स्वे। यौनौ। अभाः। उखा। ताम्। विश्वैः। देवैः। ऋतुभिरित्यृतुऽभिः। संविदान इति सम्ऽविदानः। प्रजापतिरिति प्रजाऽपतिः। विश्वकर्म्मेति विश्वऽकर्मा। वि। मुञ्चतु॥६१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मातेव) (पुत्रम्) (पृथिवी) भूमिवद्वर्त्तमाना विदुषी स्त्री (पुरीष्यम्) पुष्टिकरेषु गुणेषु भवम् (अग्निम्) विद्युतमिव सुप्रकाशम् (स्वे) स्वकीये (योनौ) गर्भाशये (अभाः) पुष्णाति धरति वा (उखा) ज्ञातुमर्हा (ताम्) (विश्वैः) सर्वैः (देवैः) दिव्यैर्गुणैः सह (ऋतुभिः) वसन्ताद्यैः (संविदानः) सम्यग्ज्ञापयन् (प्रजापतिः) परमेश्वरः (विश्वकर्मा) अखिलोत्तमक्रियः (वि) विरुद्धार्थे (मुञ्चतु)॥ ६१ ॥
Essence
अत्रोपमालङ्कारः।। यथा जननी सन्तानानुत्पाद्य पालयति तथैव पृथिवी कारणस्थां विद्युतं प्रकटय्य रक्षति,
[तां संविदानः विश्वकर्मा प्रजापतिः ....... ऋतुभिः सह]
यथा परमेश्वरो याथातथ्येन पृथिव्यादिगुणान् जानाति, प्रतिनियतसमयमृत्वादीन् पृथिव्यादींश्च धृत्वा, स्वस्वनियतपरिधौ चालयित्वा प्रलयसमये भिनत्ति, तथैव विद्वद्भिर्यथाबुद्ध्येतान् विदित्वा कार्यसिद्धये प्रयतितव्यम्।। १२। ६१।।
Subject
माता किंवत्संतानान् पालयतीत्याह ॥
Meaning of Anvay
योखा पृथिवीवद्वर्त्तमाना स्त्री स्वे योनौ पुरीष्यमग्निं पुत्रं मातेवाभा धरति तां संविदानो विश्वकर्मा प्रजापतिर्विश्वैर्देवैर्ऋतुभिः सह सततं दुःखाद्विमुञ्चतु पृथग्रक्षतु।। ६१।।

सपदार्थान्वयः -- या उखा ज्ञातुमर्हा [पृथिवी]=पृथिवीवद्वर्तमाना स्त्री, भूमिवद्वर्त्तमाना विदुषी स्त्री स्वे स्वकीये योनौ गर्भाशये पुरीष्यं पुष्टिकरेषु गुणेषु भवम् अग्निं विद्युतमिव सुप्रकाशं पुत्रं मातेव अभाः पुष्णाति धरति वा, तां संविदानः सम्यग् ज्ञापयन् विश्वकर्मा अखिलोत्तमक्रियः प्रजापतिः परमेश्वरः विश्वैः सर्वैः देवैः दिव्यैर्गुणैः सह ऋतुभिः वसन्ताद्यैः सह सततं दुःखाद् वि+मुञ्चतु=पृथग्रक्षतु ।। १२। ६१।।
[या उखा [पृथिवी] पृथिवीवर्त्तमाना स्त्री स्वे योनौ........अग्निं पुत्रं मातेवाभाः]
Meaning of Essence
अग्निम्=कारणस्थां विद्युतम्। पुत्रम्=सन्तानम्। मातेव=यथा जननी। अभाः= पालयति / रक्षति।
Special
मधुच्छन्दाः। पत्नी=माता। आर्षी त्रिष्टुप्। धैवतः॥