Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 6

117 Mantra
12/6
Devata- अग्निर्देवता Rishi- वत्सप्रीर्ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद् वी॒रुधः॑ सम॒ञ्जन्। स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धोऽअख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः॥६॥

अक्र॑न्दत्। अ॒ग्निः। स्त॒नय॑न्नि॒वेति॑ स्त॒नय॑न्ऽइव। द्यौः। क्षामा॑। रेरि॑हत्। वी॒रुधः॑। सम॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। स॒द्यः। ज॒ज्ञा॒नः। वि। हि। ई॒म्। इ॒द्धः। अख्य॑त्। आ। रोद॑सीऽइति॒ रोद॑सी। भा॒नुना॑। भा॒ति॒। अ॒न्तरित्य॒न्तः ॥६ ॥

Mantra without Swara
अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीमिद्धोऽअख्यदा रोदसी भानुना भात्यन्तः ॥

अक्रन्दत्। अग्निः। स्तनयन्निवेति स्तनयन्ऽइव। द्यौः। क्षामा। रेरिहत्। वीरुधः। समञ्जन्निति सम्ऽअञ्जन्। सद्यः। जज्ञानः। वि। हि। ईम्। इद्धः। अख्यत्। आ। रोदसीऽइति रोदसी। भानुना। भाति। अन्तरित्यन्तः॥६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अक्रन्दत्) प्राप्नोति (अग्निः) विद्युत् (स्तनयन्निव) यथा दिव्यं शब्दं कुर्वन् (द्यौः) सूर्य्यप्रकाशः (क्षामा) क्षामा=पृथिवी। क्षामेति पृथिनीनाम निघं. ।। १। १।। अत्रान्येषामपीत्युपधादीर्घः (रेरिहत्) भृशं फलानि ददाति (वीरुधः) वृक्षान् (समञ्जन्) सम्यक् प्रकाशयन् (सद्यः) समानेऽह्नि (जज्ञानः) प्रादुर्भूतः सन् (वि) (हि) खलु (ईम्) सर्वतः (इद्धः) प्रदीप्तः (अख्यत्) प्रकाशयति (आ) (रोदसी) द्यावापृथिव्यौ (भानुना) स्वदीप्त्या (भाति) प्रकाशते (अन्तः) मध्ये वर्त्तमानः सन् ।। ६।।
Essence
अत्रोपमावाचकलुप्तोपमालङ्कारौ॥ हे मनुष्याः! यथा सूर्यः सर्वलोकमध्यस्थः सर्वान् प्रकाश्याकर्षति,
[क्षामा.......रेरिहत्]
Subject
पुनस्तमेव विषयमाह।।
Meaning of Anvay
अन्वयः - हे मनुष्याः ! यः सभेशः सद्यो जज्ञानो द्यौरग्निः स्तनयन्निवारीनाक्रन्दद्यथा क्षामा वीरुधस्तथा प्रजाभ्यः सुखानि रेरिहत् यथा सवितेद्धः समञ्जन् रोदसी व्यख्यद्भानुनाऽन्तराभाति तथा यः शुभगुणकर्मस्वभावैः प्रकाशते तं हि राजकर्मसु प्रयुङ्ध्वम् ।। ६ ।।
सपदार्थान्वयः - हे मनुष्याः ! यः सभेशः सद्यः समानेऽहनि जज्ञानः प्रादुर्भूतः सन् द्यौः सूर्य्यप्रकाशः अग्निः विद्युत् स्तनयन्निव यथा दिव्यं शब्दं कुर्वन् अरीन् आ+अक्रन्दत् प्राप्नोति, यथा क्षामा क्षामा=पृथिवी वीरुधः वृक्षान् तथा प्रजाभ्यः सुखानि रेरिहत् भृशं फलानि ददाति ।
यथा सविता इद्धः प्रदीप्तः समञ्जन् सम्यक् प्रकाशयन् रोदसी द्यावापृथिव्यौ [ईम्]=सर्वतः वि+अख्यत् प्रकाशयति, भानुना स्वदीप्त्या अन्तः मध्ये वर्त्तमानः सन् आ+भाति प्रकाशते तथा यः शुभगुणकर्मस्वभावैः प्रकाशते तं हि खलु राजकर्मसु प्रयुङ्ध्वम् ।। १२ । ६ ।।
[हे मनुष्या! .......यथा सविता रोदसी.......व्यख्यत्]
Meaning of Essence
भा० पदार्थ:-- रेरिहत्=बहुफलप्रदा वर्तते।
Special
वत्सप्रीः। अग्निः=सभेशः। निचृदार्षी त्रिष्टुप्। धैवतः।।