Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 59

117 Mantra
12/59
Devata- अग्निर्देवता Rishi- मधुच्छन्दा ऋषिः Chhand- भुरिगुष्णिक् Swara- ऋषभः
Mantra with Swara
अग्ने॒ त्वं पु॑री॒ष्यो रयि॒मान् पु॑ष्टि॒माँ२ऽअ॑सि। शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वं योनि॑मि॒हास॑दः॥५९॥

अग्ने॒। त्वम्। पु॑री॒ष्यः᳖। र॒यि॒मानिति॑ रयि॒ऽमान्। पु॒ष्टि॒मानिति॑ पुष्टि॒ऽमान्। अ॒सि॒। शि॒वाः। कृ॒त्वा। दिशः॑। सर्वाः॑। त्वम्। योनि॑म्। इ॒ह। आ। अ॒स॒दः॒ ॥५१ ॥

Mantra without Swara
अग्ने त्वं पुरीष्यो रयिमान्पुष्टिमाँ असि । शिवाः कृत्वा दिशः सर्वाः योनिमिहासदः॥

अग्ने। त्वम्। पुरीष्यः। रयिमानिति रयिऽमान्। पुष्टिमानिति पुष्टिऽमान्। असि। शिवाः। कृत्वा। दिशः। सर्वाः। त्वम्। योनिम्। इह। आ। असदः॥५१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
हे (अग्ने) उपदेशक विद्वन् ! (त्वम्) (पुरीष्यः) ऐकमत्यपालनेषु भवः (रयिमान्) विद्याविज्ञानधनयुक्तः (पुष्टिमान्) प्रशस्तशरीरात्मबलसहितः (असि) (शिवाः) कल्याणोपदेशयुक्ताः (कृत्वा) (दिशः) उपदेष्टव्याः प्रजाः (सर्वाः) समग्रा: (स्वम्) स्वकीयम् (योनिम्) सुखसाधकं दुःखविच्छेदकमुपदेशम् (इह) अस्मिन् संसारे (आ) (असदः) आस्व ।। ५९।।
Essence
राजप्रजाजनैर्येऽत्र जितेन्द्रिया धार्मिकाः परोपकारप्रिया विद्वांसो भवेयुस्ते प्रजासु धर्मोपदेशाय नियोजनीयाः।
[सर्वा दिशः शिवाः कृत्वा स्वं यो निमासदः]
उपदेशकाश्च प्रयत्नेन सर्वान् शिक्षयैकधर्मयुक्तान् सततमविरोधिनः सुखिनः संपादयेयुः॥
Subject
केऽध्यापनोपदेशाय नियोजनीया इत्याह॥
Meaning of Anvay
हे अग्ने ! यतस्त्वमिह पुरीष्यो रयिमान् पुष्टिमानसि तस्मात्सर्वा दिशः शिवाः कृत्वा स्वं योनिमासदः ।। ५९।।
सपदार्थान्वयः -- हे अग्ने ! उपदेशक विद्वन्! यतस्त्वम् इह अस्मिन् संसारे पुरीष्यः ऐकमत्यपालनेषु भवः रयिमान् विद्याविज्ञानधनयुक्तः पुष्टिमान् प्रशस्तशरीरात्मबलसहितः असि, तस्मात् सर्वाः समग्रा दिशः उपदेष्टव्याः प्रजाः शिवाः कल्याणोपदेशयुक्ताः कृत्वा स्वं स्वकीयं योनिं सुखसाधकं दुःखविच्छेदकमुपदेशम् आ+असदः आस्व।। १२। ५९।।
[हे अग्ने! यतस्त्वमिह पुरीष्यो रयिमान् पुष्टिमान् असि]
Meaning of Essence
पुरीष्यः=जितेन्द्रियः। रयिमान्=धार्मिकः। पुष्टिमान्=परोपकारप्रियः।
Special
मधुच्छन्दाः। अग्निः=विद्वान् । भुरिगुष्णिक्। ऋषभः।।