Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 58

117 Mantra
12/58
Devata- अग्निर्देवता Rishi- मधुच्छन्दा ऋषिः Chhand- भुरिगुपरिष्टाद् बृहती Swara- मध्यमः
Mantra with Swara
सं वां॒ मना॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम्। अग्ने॑ पुरीष्याधि॒पा भ॑व॒ त्वं न॒ इष॒मूर्जं॒ यज॑मानाय धेहि॥५८॥

सम्। वा॒म्। मना॑सि। सम्। व्र॒ता। सम्। ऊँ॒ इत्यूँ॑। चि॒त्तानि॑। आ। अ॒क॒र॒म्। अग्ने॑। पु॒री॒ष्य॒। अ॒धि॒पा इत्य॑धि॒ऽपाः। भ॒व॒। त्वम्। नः॒। इष॑म्। ऊर्ज॑म्। यज॑मानाय। धे॒हि॒ ॥५८ ॥

Mantra without Swara
सँवाम्मनाँसि सँव्रता समु चित्तान्याकरम् । अग्ने पुरीष्याधिपा भव त्वन्न इषमूर्जँयजमानाय धेहि ॥

सम्। वाम्। मनासि। सम्। व्रता। सम्। ऊँ इत्यूँ। चित्तानि। आ। अकरम्। अग्ने। पुरीष्य। अधिपा इत्यधिऽपाः। भव। त्वम्। नः। इषम्। ऊर्जम्। यजमानाय। धेहि॥५८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सम्) एकस्मिन् धर्मे (वाम्) युवयोः (मनांसि) संकल्पविकल्पाद्या अन्तःकरणवृत्तयः (सन्) (व्रता) सत्यभाषणादीनि (सम्) (उ) समुच्चये (चित्तानि) संज्ञप्तानि धर्म्याणि कर्माणि (आ) समन्तात् (अकरम्) कुर्याम् (अग्ने) उपदेशकाचार्य (पुरीष्य) पुरीषेषु=पालकेषु व्यवहारेषु भवस्तत्संबुद्धौ (अधिपाः) अधिक: पालकः (भव) (त्वम्) (नः) अस्माकम् (इषम्) अन्नादिकम् (ऊर्जम्) शरीरात्मबलम् (यजमानाय) धर्मेण संगन्तुं शीलाय (धेहि) ।। ५८।।
Essence
भावार्थ:-- उपदेशका यावच्छक्यं तावत् सर्वेषामैकधर्म्यम्, ऐककर्म्यम्, एकनिष्ठाम्, तुल्यसुखदुःखे, यथा स्यात् तथा शिक्षयेयुः। [हे......अग्ने! त्वं.......इषमूर्जं च धेहि] सर्वे स्त्रीपुरुषा प्राप्त विद्वांसमेवोपदेष्टारमध्यापकं सेवेरन् स चैतेषामैश्वर्यपराक्रमवृद्धिं कुर्यात्। [व्यतिरेकमाह--] नैकधर्मादिभिर्विनाऽऽत्मसु सौहार्दं जायते, नैतेन विना सततं सुखं च ।। १२। ५८।।
Subject
अध्यापकोपदेशका यावत्सामर्थ्यं तावद् वेदाध्यायनोपदेशौ कुर्युरित्याह॥
Meaning of Anvay
हे स्त्रीपुरुषौ ! यथाऽहमाचार्यो वां संमनांसि संव्रतो संचित्तान्याकरं तथा युवां मम प्रियमाचरेतम्। हे पुरीष्याग्ने! त्वं नोऽधिपा भव यजमानायेषमूर्जं च धेहि।। ५८।। सपदार्थान्वयः -- हे स्त्रीपुरुषौ ! यथाऽहमाचार्य्यो वां युवयोः संमनांसि एकस्मिन् धर्मे, संकल्पविकल्पाद्या अन्तःकरणवृत्तयः संव्रता सत्यभाषणाऽऽदीनि [उ] समुच्चये संचित्तानि संज्ञप्तानि धर्म्याणि कर्माणि आ+अकरं समन्तात् कुर्य्याम्, तथा युवां मम प्रियमाचरेतम्। हे पुरीष्य ! पुरीषेषु=पालकेषु व्यवहारेषु भवस्तत्सम्बुद्धौ! अग्ने! उपदेशकाचार्य! त्वं नः अस्माकम् अधिपाः अधिक: पालकः भव, यजमानाय धर्मेण संगन्तुं शीलाय इषम् अन्नादिकम् ऊर्जं शरीरात्मबलं च धेहि ।। १२। ५८।। [हे स्त्रीपुरुषौ! यथाऽहमाचार्यो वां संमनांसि संव्रता, [उ] संचित्तान्याकरम्]
Meaning of Essence
संमनांसि=ऐकधर्म्यम्। सव्रता=ऐककर्म्यम्। संचितानि=एकनिष्ठाम्। अग्ने!= आप्त विद्वन्, उपदेष्ट:, अध्यापक ! इषम्=ऐश्वर्यम्। ऊर्जम्=पराक्रमम्।
Special
मधुच्छन्दाः। अग्निः=उपदेशकः। भुरिगुपरिष्टाद् बृहती। मध्यमः॥