Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 57

117 Mantra
12/57
Devata- अग्निर्देवता Rishi- मधुच्छन्दा ऋषिः Chhand- भुरिगुष्णिक् Swara- ऋषभः
Mantra with Swara
समि॑त॒ꣳ संक॑ल्पेथा॒ संप्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ। इष॒मूर्ज॑म॒भि सं॒वसा॑नौ॥५७॥

सम्। इ॒त॒म्। सम्। क॒ल्पे॒था॒म्। संप्रि॑या॒विति॒ सम्ऽप्रि॑यौ। रो॒चि॒ष्णूऽइति॑ रोचि॒ष्णू। सु॒म॒न॒स्यमा॑नाविति॑ सुऽमन॒स्यमा॑नौ। इष॑म्। ऊर्ज॑म्। अ॒भि। सं॒वसा॑ना॒विति॑ स॒म्ऽवसा॑नौ ॥५७ ॥

Mantra without Swara
समितँ सङ्कल्पेथाँ सम्प्रियौ रोचिष्णू सुमनस्यमानौ । इषमूर्जमभि सँवसानौ ॥

सम्। इतम्। सम्। कल्पेथाम्। संप्रियाविति सम्ऽप्रियौ। रोचिष्णूऽइति रोचिष्णू। सुमनस्यमानाविति सुऽमनस्यमानौ। इषम्। ऊर्जम्। अभि। संवसानाविति सम्ऽवसानौ॥५७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सम्) एकीभावम् (इतम्) प्राप्नुतम् (सम्) समानाभिप्राये (कल्पेथाम्) समर्थयताम् (संप्रियौ) परस्परं सम्यक्प्रीतियुक्तौ (रोचिष्णू) विषयासक्तिविरहत्वेन देदीप्यमानौ (सुमनस्यमानौ) सुमनसौ=सखायौ विद्वांसाविवाचरन्तौ (इषम्) इच्छाम् (ऊर्जम्) पराक्रमम् (संवसानौ) सम्यक् सुवस्त्रालंकारेणाच्छादितौ।। ५७।।
Essence
यदि स्त्रीपुरुषौ सर्वथा विरोधं विहायान्योऽन्यस्य प्रियाचरणे रतौ, विद्याविचारयुक्तौ, सुवस्त्रालङ्कृतौ भूत्वा प्रयतेतां—
[इषं समितम्, ऊर्जमभिसंकल्पेथाम्]
तदा गृहे कल्याणमारोग्यं वर्धेताम्
[व्यतिरेकमाह--]
यदि च विद्वेषिणौ भवेतां तदा दुःखसागरे संमग्नौ भवेताम् ।। १२। ५७।।
Subject
अथ विवाहं कृत्वा कथं वर्त्तितव्यमित्याह॥
Meaning of Anvay
हे विवाहितौ स्त्रीपुरुषौ ! युवां संप्रियौ रोचिष्णू सुमनस्यमानौ संवसानौ सन्ताविषं समितमूर्जमभिसंकल्पेथाम्।। ५७।।
सपदार्थान्वयः-- हे विवाहितौ स्त्रीपुरुषौ! युवां संप्रियौ परस्परं सम्यक् प्रीतियुक्तौ रोचिष्णू विषयासक्तिविरहत्वेन देदीप्यमानौ सुमनस्यमानौ सुमनसौ=सखायौ विद्वांसाविवाचरन्तौ संवसानौ सम्यक् सुवस्त्राऽलङ्कारेणाऽऽच्छादितौ सन्तौ इषम् इच्छां सम्+इतम् एकीभावेन प्राप्नुतम्, ऊर्जं पराक्रमम् अभि+संकल्पेथां समानाऽभिप्रायेण समर्थयताम्।। १२। ५७।।

[हे विवाहितौ स्त्रीपुरुषौ! युवां संप्रियौ ... सुमनस्यमानौ संवसानौ सन्तौ]
Meaning of Essence
संप्रियौ=सर्वथा विरोधं विहायान्योऽन्यस्य प्रियाचरणे रतौ। सुमनस्यमानौ=विद्याविचारयुक्तौ। संवसानौ=सुवस्त्रालङ्कृतौ। इषम्=कल्याणम्। ऊर्जम्=आरोग्यम् ॥
Special
मधुच्छन्दाः। अग्निः=विवाहितस्त्रीपुरुषौ। भुरिगुष्णिक् । ऋषभः।।