Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 56

117 Mantra
12/56
Devata- इन्द्रो देवता Rishi- सुतजेतृमधुच्छन्दा ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
इन्द्रं॒ विश्वा॑ऽअवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑। र॒थीत॑मꣳ र॒थीनां॒ वाजा॑ना॒ सत्प॑तिं॒ पति॑म्॥५६॥

इन्द्र॑म्। विश्वाः॑। अ॒वी॒वृ॒ध॒न्। स॒मु॒द्रव्य॑चस॒मिति॑ समु॒द्रऽव्य॑चसम्। गिरः॑। र॒थीत॑मम्। र॒थित॑म॒मिति॑ र॒थिऽत॑मम्। र॒थीना॑म्। र॒थिना॒मिति॑ र॒थिना॑म्। वाजा॑नाम्। सत्प॑ति॒मिति॒ सत्ऽपति॑म्। पति॑म् ॥५६ ॥

Mantra without Swara
इन्द्रँविश्वाऽअवीवृधन्त्समुद्रव्यचसङ्गिरः । रथीतमँ रथीनाँ वाजानाँ सत्पतिं पतिम् ॥

इन्द्रम्। विश्वाः। अवीवृधन्। समुद्रव्यचसमिति समुद्रऽव्यचसम्। गिरः। रथीतमम्। रथितममिति रथिऽतमम्। रथीनाम्। रथिनामिति रथिनाम्। वाजानाम्। सत्पतिमिति सत्ऽपतिम्। पतिम्॥५६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इन्द्रम्) परमैश्वर्य्यम् (विश्वाः) अखिलाः (अवीवृधन्) वर्धेयुः (समुद्रव्यचसम्) समुद्रस्य व्यचसो व्याप्त्य इव यस्मिंस्तम् (गिरः) वेदविद्यासंस्कृता वाचः (रथीतमम्) अतिशयेन प्रशस्तरथयुक्तम् (रथीनाम्) प्रशस्तानां वीराणाम्। अत्र छन्दसीवनिपावितीकारः (वाजानाम्) संग्रामाणां मध्ये (सत्पतिम्) सत ईश्वरस्य वेदस्य धर्मस्य जनस्य वा पालकम् (पतिम्) अखिलैश्वर्य्यं स्वामिनम्।। ५६।।
Essence
ये कुमारा याश्च कुमार्यो दीर्घेण ब्रह्मचर्येण साङ्गोपाङ्गान् वेदानधीत्य स्वप्रसन्नतया स्वयंवरं विवाहं कृत्वैश्वर्याय प्रयतेरन्।
[तथा सर्वान् वर्धयत]
धर्म्येण व्यवहारेणाव्यभिचारतया सुसन्तानानुत्पाद्य परोपकारे प्रवर्त्तेरन्।
[फलमाह--]
त इहामुत्र सुखमश्नुवीरन्, न चेतरेऽविद्वांसः।। १२। ५६।।
Subject
कुमारकुमारीभिरित्थं कर्त्तव्यमित्याह॥
Meaning of Anvay
हे स्त्रीपुरुषाः! यूयं यथा विश्वा गिरः समुद्रव्यचसं वाजानां रथीनां मध्ये रथीतमं सत्पतिं पतिमवीवृधँस्तथा सर्वान्वर्धयत।। ५६।।
सपदार्थान्वयः-- हे स्त्रीपुरुषाः ! यूयं यथा विश्वाः अखिलाः गिरः वेदविद्यासंस्कृता वाचः समुद्रव्यचसं समुद्रस्य व्यचसो=व्याप्तय इव यस्मिंस्तं, वाजानां संग्रामाणां मध्ये रथीनां प्रशस्तानां वीराणां मध्ये रथीतमम् अतिशयेन प्रशस्तरथयुक्तं सत्पतिं सतः=ईश्वरस्य वेदस्य धर्मस्य जनस्य वा पालकं पतिम् अखिलैश्वर्यं स्वामिनम् [इन्द्रम्] अवीवृधन् परमैश्वर्यं वर्धेयुः, तथा सर्वान् वर्धयत।। १२। ५६।।
[हे स्त्रीपुरुषाः! यूयं यथा विश्वा गिरः......सत्पतिं पतिमत्रीवृधन्]
Meaning of Essence
गिरः=साङ्गोपाङ्गान् वेदान्। अवीवृधन्=ऐश्वर्याय प्रयतेरन्।
Special
सुतजेतृमधुच्छन्दाः। इन्द्रः=परमैश्वर्यम्॥ निचृदनुष्टुप्। गान्धारः।।