Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 55

117 Mantra
12/55
Devata- आपो देवताः Rishi- प्रियमेधा ऋषिः Chhand- विराडार्षीनुष्टुप् Swara- गान्धारः
Mantra with Swara
ताऽअ॑स्य॒ सूद॑दोहसः॒ सोम॑ꣳ श्रीणन्ति॒ पृश्न॑यः। जन्म॑न् दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः॥५५॥

ताः। अ॒स्य॒। सूद॑दोहस॒ इति॒ सूद॑ऽदोहसः। सोम॑म्। श्री॒ण॒न्ति॒। पृश्न॑यः। जन्म॑न्। दे॒वाना॑म्। विशः॑। त्रि॒षु। आ। रो॒च॒ने। दि॒वः ॥५५ ॥

Mantra without Swara
ताऽअस्य सूददोहसः सोमँ श्रीणन्ति पृश्नयः । जन्मन्देवानाँविशस्त्रिष्वारोचने दिवः ॥

ताः। अस्य। सूददोहस इति सूदऽदोहसः। सोमम्। श्रीणन्ति। पृश्नयः। जन्मन्। देवानाम्। विशः। त्रिषु। आ। रोचने। दिवः॥५५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(ताः) ब्रह्मचारिणी : (अस्य) गृहाश्रमस्य (सूददोहसः) सूदा:=सुष्ठु पाचका दोहसो=गवादिदोग्धारश्च यासां ताः (सोमम्) सोमरसान्वितं पाकम् (श्रीणन्ति) परिपक्वं कुर्वन्ति (पृश्नयः) सुस्पर्शास्तन्वङ्ग्यः। अत्र स्पृशधातोर्निः प्रत्ययः सलोपश्च (जन्मन्) जन्मनि=प्रादुर्भावे (देवानाम्) दिव्यानां विदुषां पतीनाम् (विशः) प्रजाः (त्रिषु) भूतभविष्यद्वर्तमानेषु कालावयवेषु (आ) (रोचने) रुचिकरे व्यवहारे (दिवः) दिव्यस्य ।। ५५ ।।
Essence
यदा सुशिक्षितानां विदुषां यूनां स्वसदृशा रूपगुणसम्पन्नाः स्त्रियो भवेयुस्तदा गृहाश्रमे सर्वदा सुखं सुसन्तानाश्च जायेरन्।
[फलमाह--]
न ह्येवं विना वर्त्तमानेऽभ्युदयो, मरणानन्तरं निःश्रेयसं च प्राप्तुं शक्यम्।। १२। ५५।।
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
या देवानां सूददोहसः पृश्नयः पत्नयो जन्मन् द्वितीये विद्याजन्मनि विदुष्यो भूत्वा दिवोस्य सोमं श्रीणन्ति ता आरोचने त्रिषु सुखदा भवन्ति विशश्च प्राप्नुवन्ति ।। ५५।।
सपदार्थान्वयः--या देवानां दिव्यानां विदुषां पतीनां सूददोहसः सूदा:=सुष्ठु पाचका दोहसो= गवादिदोग्धारश्च यासां ताः, पृश्नयः=पत्न्यः सुस्पर्शास्तन्वङ्ग्यः जन्मन्=द्वितीये विद्याजन्मनि जन्मनि= प्रादुर्भावे विदुष्यो भूत्वा दिवः दिव्यस्य अस्य गृहाश्रमस्य सोमं सोमरसाऽन्वितं पाकं श्रीणन्ति परिपक्वं कुर्वन्ति, ताः ब्रह्मचारिणी: आ+रोचने रुचिकरे व्यवहारे त्रिषु भूतभविष्यद्वर्त्तमानेषु कालाऽवयवेषु सुखदा भवन्ति, विश: प्रजाः च प्राप्नुवन्ति ।। १२। ५५।।
[या देवानां पृश्नयः=पत्न्यो.......रोचने त्रिषु सुखदा भवन्ति, विशश्च प्राप्नुवन्ति]
Meaning of Essence
देवानाम्=सुशिक्षितानां विदुषां यूनाम्। पृश्नयः=स्वसदृशा रूपगुणसम्पन्नाः स्त्रियः। रोचने=गृहाश्रमे। त्रिषु=सर्वदा । विशः=सुसन्तानाः॥
Special
प्रियमेधाः। आपः=कन्याः। विराडनुष्टुप्। गान्धारः।।