Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 53

117 Mantra
12/53
Devata- अग्निर्देवता Rishi- विश्वामित्र ऋषिः Chhand- स्वराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द। परि॒चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द॥५३॥

चित्। अ॒सि॒। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। सी॒द॒। प॒रि॒चिदिति॑ परि॒ऽचित्। अ॒सि॒। तया॑। दे॒वत॑या। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। सी॒द॒ ॥५३ ॥

Mantra without Swara
चिदसि तया देवतयाङ्गिरस्वद्धरुवा सीद परिचिदसि तया देवतयाङ्गिरस्वद्धरुवा सीद ॥

चित्। असि। तया। देवतया। अङ्गिरस्वत्। ध्रुवा। सीद। परिचिदिति परिऽचित्। असि। तया। देवतया। अङ्गिरस्वत्। ध्रुवा। सीद॥५३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(चित्) संज्ञप्ता (असि) (तया) (देवतया) दिव्यगुणप्रापिकया (अङ्गिरस्वत्) प्राणवत् (ध्रुवा) निश्चला (सीद) भव (परिचित्) विद्यापरिचयं प्राप्ता (असि) (तया) धर्मानुष्ठानयुक्त्या क्रियया (देवतया) दिव्यसुखप्रदया (अङ्गिरस्वत्) हिरण्यगर्भवत् (ध्रुवा) निष्कम्पा (सीद) अवतिष्ठस्व ।। ५३ ।।
Essence
सर्वैर्मातापित्रादिभिरध्यापिकाभिर्विदुषीभिश्च कन्याः सम्बोधनीया:--
[हे ब्रह्मचारिणि! या त्वं परिचिदसि]
भो कन्याः ! यूयं यदि पूर्णेनाखण्डितेन ब्रह्मचर्येणाखिला विद्याः सुशिक्षाः प्राप्य, युवतयो भूत्वा-
[सा त्वं तया देवतया सहाङ्गिरस्वत् ध्रुवा सीद]
स्वसदृशैर्वरैः स्वयंवरविवाहं कृत्वा गृहाश्रमं कुर्यात, तर्हि सर्वाणि सुखानि लभेध्वं, सन्तानाश्च जायेरन् ।। १२। ५३।।
Subject
कन्याभिः किं कृत्वा किं कार्य्यमित्याह ॥
Meaning of Anvay
हे कन्ये ! या चिदसि सा त्वं तया देवतया सहाङ्गिरस्वत् ध्रुवा सीद। हे ब्रह्मचारिणि! या त्वं परिचिदसि सा तया देवतया सहाङ्गिरस्वद् ध्रुवा सीद ।। ५३।।
सपदार्थान्वयः -- हे कन्ये ! या चित् संज्ञप्ता असि, सा त्वं तया देवतया दिव्यगुणप्रापिकया सह अङ्गिरस्वत् प्राणवद् ध्रुवा निश्चला सीद भव।
हे ब्रह्मचारिणि! या त्वं परिचित् विद्यापरिचयं प्राप्ता असि, सा [त्वं] तया धर्माऽनुष्ठानयुक्त्या क्रियया देवतया दिव्यसुखप्रदया सह अङ्गिरस्वत् हिरण्यगर्भवद् ध्रुवा निष्कम्पा सीद अवतिष्ठस्व॥
Meaning of Essence
परिचित्=पूर्णेनाखण्डितेन ब्रह्मचर्येणाखिला विद्याः सुशिक्षा: प्राप्ताः। देवतया=स्वसदृशेन वरेण।
Special
विश्वामित्रः। अग्निः=माता पित्रादयः। स्वराडनुष्टुप् । गांधारः॥