Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 52

117 Mantra
12/52
Devata- अग्निर्देवता Rishi- विश्वामित्र ऋषिः Chhand- निचृदार्ष्यनुस्टुप् Swara- गान्धारः
Mantra with Swara
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तोऽअरो॑चथाः। तं जा॒नन्न॑ग्न॒ऽआ रो॒हाथा॑ नो वर्धया र॒यिम्॥५२॥

अ॒यम्। ते॒। योनिः॑। ऋ॒त्वियः॑। यतः॑। जा॒तः। अरो॑चथाः। तम्। जा॒नन्। अ॒ग्ने॒। आ। रो॒ह॒। अथ॑। नः॒। व॒र्ध॒य॒। र॒यिम् ॥५२ ॥

Mantra without Swara
अयन्ते योनिरृत्वियो यतो जातोऽअरोचथाः । तञ्जानन्नग्नऽआ रोहाथा नो वर्धया रयिम् ॥

अयम्। ते। योनिः। ऋत्वियः। यतः। जातः। अरोचथाः। तम्। जानन्। अग्ने। आ। रोह। अथ। नः। वर्धय। रयिम्॥५२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अयम्) (ते) तव (योनिः) दुःखवियोजकः सुखसंयोजको व्यवहारः (ऋत्वियः) ऋतुः समयोऽस्य प्राप्तः । अत्र छन्दसि घसिति घस् प्रत्ययः (यतः) यस्मात् (जातः) प्रादुर्भूतः सन् (अरोचथाः) प्रदीप्येथाः (तम्) (जानन्) (अग्ने) अग्निरिव स्वच्छात्मन् (आ) (रोह) आरूढो भव (अथ) अनन्तरम्। अत्र निपातस्य चेति संहितायां दीर्घः (नः) अस्मभ्यम् (वर्धय) अत्रान्येषामपीति संहितायां दीर्घत्वम् (रयिम्) प्रशस्तां श्रियम् ।। ५२।।
Essence
हे मातापित्राचार्य्याः! यूयं पुत्रान् पुत्रींश्च धर्म्येण ब्रह्मचर्येण सेवितेन सद्विद्या जनयित्वोपदिशत—
[त्वमारोह: अथ नो रयिं वर्धय]
हे सन्तानाः! यूयं सद्विद्यया सदाचारेणाऽस्मान् सुसेवया धनेन च सततं सुखयतेति ।। १२। ५२।।
Subject
अथ जन्यजनकानां कर्त्तव्यकर्माह ॥
Meaning of Anvay
हे अग्ने ! त्वं यस्ते तव ऋत्वियोऽयं योनिरस्ति यतो जातस्त्वमरोचथाः। तं जानँस्त्वमारोहाथ नो रयिं वर्धय ।। ५२।।
सपदार्थान्वयः - हे अग्ने ! अग्निरिव स्वच्छात्मन्। त्वं यस्ते=तव ऋत्वियः ऋतुः समयोऽस्य प्राप्तः अयं योनिः दुःखवियोजकः सुखसंयोजको व्यवहारः अस्ति, यतः यस्माद् जातः प्रादुर्भूतः सन् त्वम् अरोचथाः प्रदीप्येथाः तं जानन् त्वम् आ+रोह आरूढो भव। अथ अनन्तरं नः अस्मभ्यं रयिं प्रशस्तां श्रियं वर्धय ।। १२। ५२।।
[हे अग्ने! त्वं यस्ते=तव ऋत्वियोऽयं योनिरस्ति, यतो जातस्त्वमरोचथाः]
Special
विश्वामित्रः। अग्निः=मातापित्राचार्याः पुत्रश्च। निचृदार्ष्यनुष्टुप्। गान्धारः।।