Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 51

117 Mantra
12/51
Devata- अग्निर्देवता Rishi- विश्वामित्र ऋषिः Chhand- भुरिगार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
इडा॑मग्ने पुरु॒दꣳस॑ꣳस॒निं गोः श॑श्वत्त॒मꣳ हव॑मानाय साध। स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे॥५१॥

इडा॑म्। अ॒ग्ने॒। पु॒रु॒दꣳस॒मिति॑ पुरु॒ऽदꣳस॑म्। स॒निम्। गोः। श॒श्व॒त्त॒ममिति॑ शश्वत्ऽत॒मम्। हव॑मानाय। सा॒ध॒। स्यात्। नः॒। सु॒नुः। तन॑यः। वि॒जावेति॑ वि॒जाऽवा॑। अग्ने॑। सा। ते॒। सु॒म॒तिरिति॑ सुऽम॒तिः। भू॒तु॒। अ॒स्मेऽइत्य॒स्मे ॥५१ ॥

Mantra without Swara
इडामग्ने पुरुदँसँ सनिङ्गोः शश्वत्तमँहवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

इडाम्। अग्ने। पुरुदꣳसमिति पुरुऽदꣳसम्। सनिम्। गोः। शश्वत्तममिति शश्वत्ऽतमम्। हवमानाय। साध। स्यात्। नः। सुनुः। तनयः। विजावेति विजाऽवा। अग्ने। सा। ते। सुमतिरिति सुऽमतिः। भूतु। अस्मेऽइत्यस्मे॥५१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इडाम्) स्तोतुमर्हां वाचम् (अग्ने) विद्वन् (पुरुदंसम् ) पुरूणि=बहूनि दंसानि=कर्माणि भवन्ति यस्मात् (सनिम्) संविभागम् (गोः) वाचः (शश्वत्तमम्) अतिशयितमनादिरूपं वेदबोधम् (हवमानाय) विद्यां स्पर्द्धमानाय (साध) साध्नुहि। अत्र व्यत्ययेन शप् (स्यात्) भवेत् (नः) अस्माकम् (सूनुः) उत्पन्नः (तनयः) पुत्रः (विजावा) विविधैश्वर्य्यजनकः (अग्ने) अध्यापक (सा) (ते) तव (सुमतिः) शोभना प्रज्ञा (भूतु) भवतु। अत्र शपो लुक्। भूसुवोस्तिङीति गुणाभावः (अस्मे) अस्माकम् ।। ५१।।
Essence
मातापितृभ्यामाचार्येण च सावधानतया गर्भाधानादिसंस्काररीत्या सुसन्तानानुत्पाद्य,

[मा सुमतिरस्मे भूतु]
वेदेश्वरविद्यायुक्ता धीरुत्पाद्या।
[हेतुमाह--]
नहीदृशोऽन्यो धर्मोऽपत्यसुखनिधिर्वर्तत इति निश्चेतव्यम् ।। १२ । ५१ ।।
Subject
मनुष्यैर्गर्भाधानादिसंस्कारैरपत्यानि संस्कर्तव्यानीत्याह॥
Meaning of Anvay
हे अग्ने! ते सा सुमतिरस्मे भूतु यया ते नोस्माकं च यो विजावा तनयः स्यात् तया त्वं तस्मै हवमानायेडां गोः शश्वत्तमं पुरुदंसं सनिं साधाग्ने वयं च साध्नुयाम ।। ५१।।
सपदार्थान्वयः -- हे अग्ने! अध्यापक! ते तव सा सुमतिः शोभना प्रज्ञा अस्मे अस्माकं भूतु भवतु, यया ते तव नः=अस्माकं च यो विजावा त्रिविधैश्वर्य्यजनकः [सूनुः] उत्पन्नः तनयः पुत्रः स्यात् भवेत्, तया त्वं तस्मै हवमानाय विद्यां स्पर्द्धमानाय इडां स्तोतुमर्हां वाचं गोः वाचः शश्वत्तमम् अतिशयितमनादिरूपं वेदबोधं पुरुदंसं पुरूणि=बहूनि दंसानि=कर्माणि भवन्ति यस्मात् सनिं संविभागं साध साध्नुहि।
अग्ने! विद्वन्! वयं च साध्नुयाम ।। १२। ५१।।
[हे अग्ने!.....ते नः=अस्माकं च यो विजावा [सूनुः] तनयः स्यात्]
Meaning of Essence
अग्ने=हे मातः! पितः! आचार्य च !॥ तनयः=सुसन्तानः। सुमतिः=वेदेश्वरविद्यायुक्ता धीः।
Special
विश्वामित्रः। अग्निः=माता, पिता, आचार्यश्च। भुरिगार्षी पङ्क्तिः। पञ्चमः।।