Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 50

117 Mantra
12/50
Devata- अग्निर्देवता Rishi- विश्वामित्र ऋषिः Chhand- आर्ची पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
पु॒री॒ष्यासोऽअ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः। जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वाऽइषो॑ म॒हीः॥५०॥

पु॒री॒ष्या᳖सः। अ॒ग्नयः॑। प्रा॒व॒णेभिः॑। प्र॒व॒णेभि॒रिति॑ प्रऽव॒णेभिः॑। स॒जोष॑स॒ इति॑ स॒ऽजोष॑सः। जु॒षन्ता॑म्। य॒ज्ञम्। अ॒द्रुहः॑। अ॒न॒मी॒वाः। इषः॑। म॒हीः ॥५० ॥

Mantra without Swara
पुरीष्यासोऽअग्नयः प्रावणेभिः सजोषसः । जुषन्ताँयज्ञमद्रुहो नमीवा इषोऽमहीः ॥

पुरीष्यासः। अग्नयः। प्रावणेभिः। प्रवणेभिरिति प्रऽवणेभिः। सजोषस इति सऽजोषसः। जुषन्ताम्। यज्ञम्। अद्रुहः। अनमीवाः। इषः। महीः॥५०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(पुरीष्यासः) पूर्णासु गुणक्रियासु भवाः (अग्नयः) वह्नय इव वर्त्तमाना विद्वांसः (प्रावणेभिः)
विज्ञानैः। अत्रान्येषामपीति दीर्घत्वम् (सजोषसः) समानसेवाप्रीतयः(जुषन्ताम्) सेवन्ताम् (यज्ञम्) विद्याविज्ञानदानग्रहणाऽऽख्यम् (अद्रुहः) द्रोहरहिताः (अनमीवाः) अरोगाः (इषः) इच्छाः (महीः) महतीः।। ५०।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः।। यथा विद्युदविरुद्धा सती समानसत्तया सर्वान् पदार्थान् सेवते तथैव रोग-द्रोहादिदोषरहिताः परस्परं प्रीतिमन्तो भूत्वा विज्ञानवृद्धिकरं यज्ञं प्रतत्ये, महान्ति सुखानि सततं भुञ्जीरन् ।। १२ । ५० ॥
Subject
मनुष्यैर्द्वेषादिकं विहायानन्दितव्यमित्युपदिश्यते॥
Meaning of Anvay
सर्वे मनुष्याः प्रावणेभिः सह वर्त्तमाना अनमीवा अद्रुहः सजोषसः पुरीष्यासोऽग्नय इव सन्तो यज्ञं महीरिषो जुषन्ताम् ।। ५०।।
सपदार्थान्वयः -- सर्वे मनुष्याः प्रावणेभिः विज्ञानैः सह वर्त्तमाना अनमीवाः अरोगाः अद्रुहः द्रोहरहिताः सजोषसः समानसेवाप्रीतयः पुरीष्यासः पूर्णासु गुणक्रियासु भवाः अग्नयः वह्नय इव वर्त्तमाना विद्वांसः इव सन्तो यज्ञं विद्याविज्ञानदानग्रहणाऽऽख्यं महीः महतीः इषः इच्छाः जुषन्तां सेवन्ताम्।। १२ । ५० ।।
[सर्वे मनुष्या अग्नय इव, अनमीवाः, अद्रुहः, सजोषसः सन्तो यज्ञं महीरिषो जुषन्ताम्]
Meaning of Essence
अग्नयः=विद्युत् । अनमीवाः=रोगरहिताः। अद्रुहः=द्रोहादिदोषरहिताः। सजोषसः= परस्परं प्रीतिमन्तः। यज्ञम्=विज्ञानवृद्धिकरं यज्ञम्। महतीः=महान्ति। इषः=सुखानि। जुषन्ताम्=सततं भुञ्जीरन् ॥
Special
विश्वामित्रः। अग्निः=विद्युत् ॥ आर्ची पङ्क्तिः। पञ्चमः।।