Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 5

117 Mantra
12/5
Devata- विष्णुर्देवता Rishi- श्यावाश्व ऋषिः Chhand- भुरिगुत्कृतिः Swara- षड्जः
Mantra with Swara
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा गा॑य॒त्रं छन्द॒ऽआरो॑ह पृथि॒वीमनु॒ विक्र॑मस्व॒ विष्णोः॒ क्रमो॑ऽस्यभिमाति॒हा त्रैष्टु॑भं॒ छन्द॒ऽआरो॑हा॒न्तरि॑क्ष॒मनु॒ विक्र॑मस्व॒ विष्णोः॒ क्रमो॑ऽस्यरातीय॒तो ह॒न्ता जाग॑तं॒ छन्द॒ऽआरो॑ह॒ दिव॒मनु॒ विक्र॑मस्व॒ विष्णोः॒ क्रमो॑ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभं॒ छन्द॒ऽआरो॑ह॒ दिशोऽनु॒ विक्र॑मस्व॥५॥

विष्णोः॑। क्रमः॑। अ॒सि॒। स॒प॒त्न॒हेति॑ सपत्न॒ऽहा। गा॒य॒त्रम्। छन्दः॑। आ। रो॒ह॒। पृ॒थि॒वीम्। अनु॑। वि। क्र॒म॒स्व॒। विष्णोः॑। क्रमः॑। अ॒सि॒। अ॒भि॒मा॒ति॒हेत्य॑भिमाति॒ऽहा। त्रैष्टु॑भम्। त्रैस्तु॑भ॒मिति॒ त्रैऽस्तु॑भम्। छन्दः॑। आ। रो॒ह॒। अ॒न्तरि॑क्षम्। अनु॑। वि। क्र॒म॒स्व॒। विष्णोः॑। क्रमः॑। अ॒सि॒। अ॒रा॒ती॒य॒तः। अ॒रा॒ति॒य॒त इत्य॑रातिऽय॒तः। ह॒न्ता। जाग॑तम्। छन्दः॑। आ। रो॒ह॒। दिव॑म्। अनु॑। वि। क्र॒म॒स्व॒। विष्णोः॑। क्रमः॑। अ॒सि॒। श॒त्रू॒य॒तः। श॒त्रु॒य॒त इति॑ शत्रुऽय॒तः। ह॒न्ता। आनु॑ष्टुभम्। आनु॑स्तुभ॒मित्यानु॑ऽ स्तुभम्। छन्दः॑। आ। रो॒ह॒। दिशः॑। अनु॑। वि। क्र॒म॒स्व॒ ॥५ ॥

Mantra without Swara
विष्णोः क्रमो सि सपत्नहा गायत्रञ्छन्दऽआ रोह पृथिवीमनु विक्रमस्व । विष्णोः क्रमो स्यभिमातिहा त्रैष्टुभञ्छन्दऽआरोहान्तरिक्षमनु विक्रमस्व विष्णोः क्रमो स्यरातीयतो हन्ता जागतञ्छन्दऽआ रोह दिवमनु विक्रमस्व विष्णोः क्रमो सि शत्रूयतो हन्तानुष्टुभञ्छन्दऽआ रोह दिशोनु विक्रमस्व ॥

विष्णोः। क्रमः। असि। सपत्नहेति सपत्नऽहा। गायत्रम्। छन्दः। आ। रोह। पृथिवीम्। अनु। वि। क्रमस्व। विष्णोः। क्रमः। असि। अभिमातिहेत्यभिमातिऽहा। त्रैष्टुभम्। त्रैस्तुभमिति त्रैऽस्तुभम्। छन्दः। आ। रोह। अन्तरिक्षम्। अनु। वि। क्रमस्व। विष्णोः। क्रमः। असि। अरातीयतः। अरातियत इत्यरातिऽयतः। हन्ता। जागतम्। छन्दः। आ। रोह। दिवम्। अनु। वि। क्रमस्व। विष्णोः। क्रमः। असि। शत्रूयतः। शत्रुयत इति शत्रुऽयतः। हन्ता। आनुष्टुभम्। आनुस्तुभमित्यानुऽ स्तुभम्। छन्दः। आ। रोह। दिशः। अनु। वि। क्रमस्व॥५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(विष्णोः) व्यापकस्य जगदीश्वरस्य (क्रमः) व्यवहारः (असि ) (सपत्नहा) यः सपत्नानरीन् हन्ति सः (गायत्रम्) गायत्रीनिष्पन्नमर्थम् (छन्दः) स्वच्छम् (आ) (रोह) आरूढो भव (पृथिवीम्) पृथिव्यादिकम् (अनु) (वि) (क्रमस्व) व्यवहर (विष्णोः) व्यापकस्य कारणस्य (क्रम:) अवस्थान्तरम् (असि) (अभिमातिहा) योऽभिमातीनभिमानयुक्तान् हन्ति (त्रैष्टुभम्) त्रिभिः सुखैः संबद्धम् (छन्दः) बलप्रदम् (आ) (रोह) (अन्तरिक्षम्) आकाशम् (अनु) (वि) (क्रमस्व) (विष्णोः) व्याप्तुं शीलस्य विद्युद्रूपाग्नेः (क्रमः) (असि) (अरातीयतः) विद्यादिदानं कर्तुमनिच्छतः (हन्ता) नाशकः (जागतम्) जगज्जानाति येन तत् (छन्दः) सृष्टिविद्याबलकरम् (आ) (रोह) (दिवम्) सूर्याद्यग्निम् (अनु) (वि) (क्रमस्व) (विष्णोः) हिरण्यगर्भस्य वायोः (क्रमः) (असि) (शत्रूयतः) आत्मनः शत्रुमाचरतः (हन्ता) (आनुष्टुभम्) अनुकूलतया स्तोभते=सुखं बध्नाति येन तत् (छन्दः) आनन्दकरम् (आ) (रोह) (दिशः) पूर्वादीन् (अनु) (वि) (क्रमस्व) प्रयतस्व ।। ५।।
Essence
मनुष्यैर्वेदविद्यया भूगर्भादिविद्या निश्चित्य, पराक्रमेणोन्नीय, रोगाः शत्रवश्च विहन्तव्याः।। १२ । ५ ॥
Subject
पुना राजधर्ममाह ॥
Meaning of Anvay
अन्वयः -- हे विद्वन्! यतस्त्वं विष्णोः क्रमः सपत्नहाऽसि। तस्माद् गायत्रं छन्द आरोह। पृथिवीमनुविक्रमस्व। यतस्त्वं विष्णोः क्रमोऽभिमातिहासि तस्मात्त्वं त्रैष्टुभं छन्द आरोहान्तरिक्षमनुविक्रमस्व यतस्त्वं विष्णोः क्रमोऽरातीयहन्ताऽसि तस्माज्जागतं छन्द आरोह दिवमनुविक्रमस्व यस्त्वं विष्णोः क्रमः शत्रूयतो हन्ताऽसि स त्वमानुष्टुभं छन्द आरोह दिशोऽनुविक्रमस्व ।। ५।।
सपदार्थान्वयः -- हे विद्वन्! यतस्त्वं विष्णोः व्यापकस्य जगदीश्वरस्य क्रमः व्यवहारः सपत्नहा यः सपत्नानरीन् हन्ति सः, असि तस्माद् गायत्रं गायत्रीनिष्पन्नमर्थं छन्दः स्वच्छम् आ+रोह आरूढो भव, पृथिवीं पृथिव्यादिकम् अनु+वि+क्रमस्व व्यवहर।
यतस्त्वं विष्णोः व्यापकस्य कारणस्य क्रमः अवस्थान्तरम् अभिमातिहा योऽभिमातीनभिमान युक्तान् हन्ति, असि तस्मात्त्वं त्रैष्टुभं त्रिभिः सुखैः सम्बद्धं छन्दः बलप्रदम् आ+रोह आरूढो भव अन्तरिक्षम् आकाशम् अनु वि+क्रमस्व व्यवहर।
यतस्त्वं विष्णोः व्याप्तुं शीलस्य विद्युद्रूपाऽग्नेः क्रमः अरातीयतः विद्यादिदानं कर्तुमनिच्छतः हन्ता नाशक: असि, तस्माज्जागतं जगज्जानाति येन तत्, छन्दः सृष्टिविद्याबलकरम् आ+रोह आरूढो भव, दिवं सूर्याद्यग्निम् अनु+वि+क्रमस्व व्यवहर।
यतस्त्वं विष्णोः हिरण्यगर्भस्य वायोः क्रमः शत्रूयतः आत्मनः शत्रुमाचरतः हन्ता नाशकः असि, स त्वम् आनुष्टुभम् आनुकूलतया स्तोभते=सुखं बध्नाति येन तत्, छन्दः आनन्दकरम् आ+रोह आरूढो भव, दिशः पूर्वादीन् अनु+वि+क्रमस्व प्रयतस्व।। १२ । ५ ।।
[हे विद्वन् ! त्वं सपत्नहा…… पृथिवीं त्वं…….अभिमातहा…….अन्तरिक्षं त्वम्….. अरातीयतो हन्ता......दिवं……त्वं …. शत्रूयतो हन्ता....... दिशोऽनुविक्रमस्व]
Meaning of Essence
पृथिवीम्=भूगर्भविद्याम्। अन्तरिक्षम्=आकाशविद्याम्। दिवम्=अग्नि-विद्याम् ।
Special
श्यावाश्वः । विष्णुः=विद्वान् । भुरिगुत्कृतिः । षड्जः ।।