Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 49

117 Mantra
12/49
Devata- अग्निर्देवता Rishi- विश्वामित्र ऋषिः Chhand- भुरिगार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अग्ने॑ दि॒वोऽअर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ२ऽऊ॑चिषे॒ धिष्ण्या॒ ये। या रो॑च॒ने प॒रस्ता॒त् सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ऽआपः॑॥४९॥

अग्ने॑। दि॒वः। अर्ण॑म्। अच्छ॑। जि॒गा॒सि॒। अच्छ॑। दे॒वान्। ऊ॒चि॒षे॒। धिष्ण्याः॑। ये। याः। रो॒च॒ने। प॒रस्ता॑त्। सूर्य॑स्य। याः। च॒। अ॒वस्ता॑त्। उ॒प॒तिष्ठ॑न्त॒ इत्यु॑प॒ऽतिष्ठ॑न्ते। आपः॑ ॥४९ ॥

Mantra without Swara
अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँऽऊचिषे धिष्ण्या ये । या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्तऽआपः ॥

अग्ने। दिवः। अर्णम्। अच्छ। जिगासि। अच्छ। देवान्। ऊचिषे। धिष्ण्याः। ये। याः। रोचने। परस्तात्। सूर्यस्य। याः। च। अवस्तात्। उपतिष्ठन्त इत्युपऽतिष्ठन्ते। आपः॥४९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) विद्वन् (दिवः) प्रकाशात् (अर्णम्) विज्ञानम् (अच्छ) (जिगासि) स्तौषि (अच्छ) (देवान्) दिव्यगुणान् विदुषो विद्यार्थिनो वा (ऊचिषे) वक्ति (धिष्ण्याः) ये दिधिषन्ति=ब्रुवन्ति
ते धिषाणस्तेषु साधवः। अत्र धिधातोर्बाहुलकादौणादिकः कनिन् ततो यत (ये) (याः) (रोचने) प्रकाशे (परस्तात्) परा: (सूर्यस्य) (याः) (च) (अवस्तात्) अवस्थाः (उपतिष्ठन्ते) (आपः) प्राणा जलानि वा ।। ४९।।
Essence
ये सुविचारेण विद्युतः सूर्यकिरणेषूपर्यधःस्थानां जलानां वायूनां च बोधं यथा प्राप्नुवन्ति, तेऽन्यान् प्रति सम्यगुपदिशन्तु।।
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे अग्ने! यस्त्वं दिवोर्णं या आपः सूर्यस्य रोचने परस्ताद्याश्चावस्तादुपतिष्ठन्ते ता अच्छ जिगासि। ये धिष्ण्याः सन्ति तान् देवान् प्रत्यर्णमच्छोचिषे स त्वमस्माकमुपदेष्टा भव ।। ४९।।

सपदार्थान्वयः -- हे अग्ने विद्वन्! यस्त्वं दिवः प्रकाशाद् अर्णं विज्ञानं याः आपः प्राणा जलानि वा सूर्य्यस्य रोचने प्रकाशे परस्तात् पराः याः च अवस्तात् अधस्थाः उप+तिष्ठन्ते, ता अच्छ जिगासि स्तौषि।
ये धिष्ण्याः ये दिधिषन्ति=ब्रुवन्ति ते धिषाणस्तेषु साधवः सन्ति, तान् देवान् दिव्यगुणान् विदुषो विद्यार्थिनो वा प्रति अर्णं विज्ञानम् अच्छ ऊचिषे वक्षि, स त्वमस्माकमुपदेष्टा भव।।

[हे अग्ने! यस्त्वं दिवोऽर्णं, या आपः सूर्यस्य रोचने परस्तात्, याश्चावस्तादुपतिष्ठन्ते ता अच्छ जिगासि]
Meaning of Essence
दिवः=विद्युतः। अर्णम्=बोधम्। रोचने=किरणेषु। परस्तात्=उपरिस्थाः।
Special
विश्वामित्रः। अग्निः=अध्यापकः ॥ भुरिगार्षी पंक्तिः। पञ्चमः॥