Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 48

117 Mantra
12/48
Devata- अग्निर्देवता Rishi- विश्वामित्र ऋषिः Chhand- भुरिगार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र। येना॒न्तरि॑क्षमु॒र्वात॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑॥४८॥

अग्ने॑। यत्। ते॒। दि॒वि। वर्चः॑। पृ॒थि॒व्याम्। यत्। ओष॑धीषु। अ॒प्स्वित्य॒प्ऽसु। आ। य॒ज॒त्र॒। येन॑। अ॒न्तरि॑क्षम्। उ॒रु। आ॒त॒तन्थेत्या॑ऽत॒तन्थ॑। त्वे॒षः। सः। भा॒नुः। अ॒र्ण॒वः। नृ॒चक्षा॒ इति॑ नृ॒ऽचक्षाः॑ ॥४८ ॥

Mantra without Swara
अग्ने यत्ते दिवि वर्चः पृथिव्याँ यदोषधीष्वप्स्वा यजत्र । येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः ॥

अग्ने। यत्। ते। दिवि। वर्चः। पृथिव्याम्। यत्। ओषधीषु। अप्स्वित्यप्ऽसु। आ। यजत्र। येन। अन्तरिक्षम्। उरु। आततन्थेत्याऽततन्थ। त्वेषः। सः। भानुः। अर्णवः। नृचक्षा इति नृऽचक्षाः॥४८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) विद्वन् (यत्) यस्य (ते) तव (दिवि) द्योतनात्मके विद्युदादौ (वर्चः) विज्ञानप्रकाशः (पृथिव्याम्) भूमौ (यत्) (ओषधीषु) यवादिषु (अप्सु) प्राणेषु जलेषु वा (आ) (यजत्र) संगन्तुं योग्य (येन) (अन्तरिक्षम्) आकाशम् (उरु) बहु (आ, ततन्थ) समन्तात्तनु (त्वेषः) प्रकाश: (सः) (भानुः) प्रभाकरः (अर्णवः) अर्णांसि=बहून्युदकानि विद्यन्ते यस्मिन् सः। अर्णसो लोपश्च ॥ अ० ५। २। १०९।। इति मत्वर्थे वः सलोपश्च (नृचक्षाः) नृन् चक्षसे सः।। ४८।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ अस्मिन् जगति यस्य सृष्टिपदार्थविज्ञानं यादृशं स्यात् तादृशं सद्योऽन्यान् ग्राहयेत्।
[हेतुमाह--]
यदि न ग्राहयेत् तर्हि तन्नष्टं सदन्यैः प्राप्तुमशक्यं स्यात् ।। १२। ४८।।
Subject
अध्यापकैर्निष्कपटत्वेन सर्वे विद्यार्थिनः पाठनीया इत्याह।।
Meaning of Anvay
हे यजत्राग्ने! यद्यस्य ते तवाऽग्नेरिव दिवि वर्चः यत् पृथिव्यामोषधीष्वप्सु वर्चोऽस्ति येन नृचक्षा भानुरर्णवो नान्तरिक्षमुर्वाततन्थ तथा स त्वं तदस्मासु धेहि ॥ ४८॥
सपदार्थान्वयः-- हे यजत्र संगन्तुं योग्य! अग्ने विद्वन्! यत्=यस्य ते=तव अग्नेरिव दिवि द्योतनात्मके विद्युदादौ वर्चः विज्ञानप्रकाशः यत् यस्य पृथिव्यां भूमौ ओषधीषु यवादिषु अप्सु
प्राणेषु जलेषु वा वर्चः विज्ञानप्रकाशः अस्ति, येन नृचक्षाः नृन् चक्षते सः [त्वेषः]=प्रकाशः भानुः प्रभाकरः अर्णवः अर्णांसि=बहून्युदकानि विद्यन्ते यस्मिन् सः, येन अन्तरिक्षम् आकाशम् उरु बहु आ+ततन्थ समन्तात् तनु, तथा स त्वं तदस्मासु धेहि ।। १२। ४८।।
[हे ....अग्ने ! यत्=यस्य ते.....वर्चोऽस्ति .... स त्वं तदस्मासु धेहि]
Meaning of Essence
वर्चः=सृष्टिपदार्थविज्ञानम् ॥
Special
विश्वामित्रः। अग्निः=अध्यापकः। भुरिगार्षी पङ्क्तिः। पञ्चमः॥