Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 45

117 Mantra
12/45
Devata- पितरो देवताः Rishi- सोमाहुतिर्ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः। अदा॑द्य॒मोऽव॒सानं॑ पृथि॒व्याऽअक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै॥४५॥

अप॑। इ॒त॒। वि। इ॒त॒। वि। च॒। स॒र्प॒त॒। अतः॑। ये। अत्र॑। स्थ। पु॒रा॒णाः। ये। च॒। नूत॑नाः। अदा॑त्। य॒मः। अ॒व॒सान॒मित्य॑व॒ऽसान॑म्। पृ॒थि॒व्याः। अक्र॑न्। इ॒मम्। पि॒तरः॑। लो॒कम्। अ॒स्मै॒ ॥४५ ॥

Mantra without Swara
अपेत वीत वि च सर्पतातो ये त्र स्थ पुराणा ये च नूतनाः । अदाद्यमो वसानम्पृथिव्या अक्रन्निमम्पितरो लोकमस्मै ॥

अप। इत। वि। इत। वि। च। सर्पत। अतः। ये। अत्र। स्थ। पुराणाः। ये। च। नूतनाः। अदात्। यमः। अवसानमित्यवऽसानम्। पृथिव्याः। अक्रन्। इमम्। पितरः। लोकम्। अस्मै॥४५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अप) (इत) त्यजत (वि) (इत) विविधतया प्राप्नुत (वि) (च) (सर्पत) गच्छत (अतः) कारणात् (ये) (अत्र) अस्मिन्समये (स्थ) भवथ (पुराणाः) प्रागधीतविद्याः (ये) (च) (नूतनाः) संप्रतिगृहीतविद्याः (अदात्) दद्यात् (यमः) उपरतः परीक्षकः (अवसानम्) अवकाशमधिकारं वा (पृथिव्याः) भूमेर्मध्ये वर्त्तमानाः (अक्रन्) कुर्वन्तु (इमम्) प्रत्यक्षम् (पितरः) जनका अध्यापका उपदेशकाः परीक्षका वा (लोकम्) आर्षं दर्शनम् (अस्मै) सत्यसंकल्पाय ।। ४५।।
Essence
अयमेव मातृ-पितृ-आचार्याणां परमो धर्मोऽस्ति यत् सन्तानेभ्यो विद्यासु शिक्षाप्राप्तिकारणम्।
[यूयमतोऽधर्मादपेत,धर्मं२् वीत, येऽत्र......पुराणा ये च नूतनाः पितरः]

येऽधर्मान्मुक्ता धर्मेण युक्ताः परोपकारप्रिया वृद्धा युवानश्च विद्वांसः सन्ति ते सततं सत्योपदेशेनाविद्यां निवर्त्य विद्यां जनयित्वा कृतकृत्या भवन्तु ।। १२। ४५।।
Subject
अथ जन्यजनकाः किं किं कर्माचरेयुरित्याह ॥
Meaning of Anvay
हे विद्वांसः! येऽत्र पृथिव्या मध्ये पुराणा ये च नूतनाः पितरः स्थ तेऽस्मै इमं लोकमक्रन्। यान् युष्मान्यमोऽवसानमदात्ते यूयमतोऽधर्मादपेतधर्मंतर वीतात्रैव च विसर्पत ।। ४५।।
सपदार्थान्वयः-- हे विद्वांसः! येऽत्र अस्मिन् समये पृथिव्या मध्ये भूमेर्मध्ये वर्त्तमानाः पुराणाः प्रागधीतविद्याः ये च नूतनाः सम्प्रतिगृहीतविद्याः पितरः जनका अध्यापका उपदेशका परीक्षका वा स्थ भवथ, तेऽस्मै सत्यसंकल्पाय इमं प्रत्यक्षं लोकम् आर्षं दर्शनम् अक्रन् कुर्वन्तु।
यान् युष्मान् यमः उपरतः परीक्षकः अवसानम् अवकाशमधिकारं वा अदात् दद्यात्, ते यूयम् अतः=अधर्मात् कारणाद् अप+इत त्यजत, धर्मं वि+इत विविधतया प्राप्नुत, अत्र अस्मिन् समये एव च वि+सर्पत गच्छत ।। १२। ४५ ।।
[येऽत्र.......पितरः स्थ, तेऽस्मै इमं लोकमक्रन्]
Meaning of Essence
पितरः=मातृ-पितृ-आचार्याः। पुराणाः=परोपकारप्रिया वृद्धा
विद्वांसः। नूतनाः=परोपकारप्रिया युवानो विद्वांसः॥
Special
सोमाहुतिः । पितरः=माता-पितृ आचार्याः। निचृदार्षी त्रिष्टुप्। धैवतः॥