Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 44

117 Mantra
12/44
Devata- अग्निर्देवता Rishi- सोमाहुतिर्ऋषिः Chhand- स्वराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः। घृ॒तेन॒ त्वं त॒न्वं वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑॥४४॥

पुन॒रिति॒ पुनः॑। त्वा॒। आ॒दि॒त्याः। रु॒द्राः। वस॑वः। सम्। इ॒न्ध॒ता॒म्। पुनः॑। ब्र॒ह्माणः॑। व॒सु॒नी॒थेति॑ वसुऽनीथ। य॒ज्ञैः। घृ॒तेन॑। त्वम्। त॒न्व᳖म्। व॒र्ध॒य॒स्व॒। स॒त्याः। स॒न्तु। यज॑मानस्य। कामाः॑ ॥४४ ॥

Mantra without Swara
पुनस्त्वादित्या रुद्रा वसवः समिन्धतान्पुनर्ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वँतन्वँवर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥

पुनरिति पुनः। त्वा। आदित्याः। रुद्राः। वसवः। सम्। इन्धताम्। पुनः। ब्रह्माणः। वसुनीथेति वसुऽनीथ। यज्ञैः। घृतेन। त्वम्। तन्वम्। वर्धयस्व। सत्याः। सन्तुः। यजमानस्य। कामाः॥४४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(पुनः) अध्ययनाध्यापनाभ्यां पश्चात् (त्वा) त्वाम् (आदित्याः) पूर्णविद्याबलयुक्ताः (रुद्राः) मध्यस्था: (वसवः) प्रथमे च विद्वांसः (सम्) (इन्धताम्) प्रकाशयन्तु (पुनः) (ब्रह्माणः) चतुर्वेदाध्ययनेन ब्रह्मा इति सज्ञां प्राप्ताः (वसुनीथ) वेदादिशास्त्रबोधाख्यं सुवर्णादिधनं च यो नयति तत्सम्बुद्धौ (यज्ञैः) अध्ययनाध्यापनादिक्रियामयैः (घृतेन) सुसंस्कृतेनाज्यादिना जलेन वा (त्वम्) अध्यापकः श्रोता वा (तन्वम्) शरीरम् (वर्धयस्व) (सत्याः) सत्सु=धर्मेषु साधवः (सन्तु) भवन्तु (यजमानस्य) यष्टुं=संगन्तुं विदुषः पूजितुं च शीलं यस्य तस्य (कामाः) अभिलाषाः।। ४४।।
Essence
ये प्रयत्नेन सर्वा विद्या अधीत्याध्याप्य च पुनः पुनः सत्संगं कुर्वन्ति,

[घृतेन तन्वं नित्यं वर्धयस्व]
कुपथ्यविषयत्यागेन शरीरात्मनोरारोग्यं वर्धयित्वा नित्यं पुरुषार्थमनुतिष्ठन्ति,

[यजमानस्य कामाः सत्याः सन्तु]
तेषामेव संकल्पाः सत्या भवन्ति, नेतरेषाम्॥
Subject
कीदृशा मनुष्याः सत्यसंकल्पा भवन्तीत्युपदिश्यते।।
Meaning of Anvay
हे वसुनीथ त्वं यज्ञैर्घृतेन च तन्वं शरीरं नित्यं वर्धयस्व पुनस्त्वमादित्या रुद्रा वसवो ब्रह्माणः समिन्धताम्। एवमनुष्ठानाद्यजमानस्य कामाः सत्याः सन्तु ।। ४४।।
सपदार्थान्वयः -- हे वसुनीथ वेदादिशास्त्रबोधाऽऽख्यं सुवर्णादिधनं च यो नयति तद्सम्बुद्धौ! त्वं अध्यापकः श्रोता वा यज्ञैः अध्ययनाऽध्यापनादिक्रियामयैः घृतेन सुसंस्कृतेनाज्यादिना जलेन वा च तन्वं शरीरं नित्यं वर्धयस्व। पुनः अध्ययनाऽध्यापनाभ्यां पश्चात् [त्वा]=त्वाम् आदित्याः पूर्णविद्याबलयुक्ताः रुद्राः मध्यस्थाः वसवः प्रथमे च विद्वांसः ब्रह्माणः चतुर्वेदाऽध्ययनेन ब्रह्मा इति संज्ञां प्राप्ताः सम्+इन्धतां प्रकाशयन्तु। एवमनुष्ठानाद् यजमानस्य यष्टुं=संगन्तुं विदुषः पूजितुं च शीलं यस्य तस्य कामाः अभिलाषाः सत्याः सत्सु=धर्मेषु साधवः सन्तु भवन्तु ।। १२ । ४४।।

[हे वसुनीथ ! त्वं यज्ञैः....]
Meaning of Essence
घृतेन=कुपथ्यविषयत्यागेन। तन्वम्=शरीरात्मनोरारोग्यम्।
Special
सोमाहुति:। अग्निः=विद्वान्॥ स्वराडार्षी त्रिष्टुप्। धैवतः।।