Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 43

117 Mantra
12/43
Devata- अग्निर्देवता Rishi- सोमाहुतिर्ऋषिः Chhand- आर्ची पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन्। यु॒यो॒ध्यस्मद् द्वेषा॑सि वि॒श्वक॑र्मणे॒ स्वाहा॑॥४३॥

सः। बो॒धि॒। सू॒रिः। म॒घवेति॑ म॒घऽवा॑। वसु॑पत॒ इति॒ वसु॑ऽपते। वसु॑दाव॒न्निति॒ वसु॑ऽदावन्। यु॒यो॒धि। अ॒स्मत्। द्वेषा॑सि। वि॒श्वक॑र्मण॒ इति॑ वि॒श्वऽक॑र्मणे। स्वाहा॑ ॥४३ ॥

Mantra without Swara
स बोधि सूरिर्मघवा वसुपते वसुदावन् । युयोध्यस्मद्द्वेषाँसि । विश्वकर्मणे स्वाहा ॥

सः। बोधि। सूरिः। मघवेति मघऽवा। वसुपत इति वसुऽपते। वसुदावन्निति वसुऽदावन्। युयोधि। अस्मत्। द्वेषासि। विश्वकर्मण इति विश्वऽकर्मणे। स्वाहा॥४३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सः) श्रोता वक्ता च (बोधि) बुध्येत (सूरिः) मेधावी (मघवा) पूजितविद्यायुक्तः (वसुपते) वसूनां=धनानां पालक (वसुदावन्) वसूनि=धनानि सुपात्रेभ्यो ददाति, तत्संबुद्धौ (युयोधि) वियोजय (अस्मत्) अस्माकं सकाशात् (द्वेषांसि) द्वेषयुक्तानि कर्माणि (विश्वकर्मणे) अखिलशुभकर्मानुष्ठानाय (स्वाहा) सत्यां वाणीम् ।। ४३।।
Essence
ये मनुष्या ब्रह्मचर्येण जितेन्द्रिया भूत्वा द्वेषं विहाय धर्मेणोपदिश्य श्रुत्वा च प्रयतन्ते त एव धार्मिका विद्वांसोऽखिलं सत्यासत्यं ज्ञातुमुपदेष्टुं चार्हन्ति, नेतरे हठाभिमानयुक्ताः क्षुद्राशयाः ।। १२। ४३।।
Subject
मनुष्याः किं कृत्वा किं प्राप्नुयुरित्याह ॥
Meaning of Anvay
हे वसुपते वसुदावन्! यो मघवा सूरिर्भवान्सस्यं बोधि स विश्वकर्मणे स्वाहामुपदिशन्संस्त्वमस्मद्वेयोषांसि वियुयोधि सततं दूरीकुरु ।। ४३।।
सपदार्थान्वयः -- हे वसुपते वसूनां=धनानां पालक ! वसुदावन् वसूनि=धनानि सुपात्रेभ्यो ददाति तत्सम्बुद्धौ! यो मघवा पूजितविद्यायुक्तः सूरिः मेधावी भवान् सत्यं बोधि बुध्येत, सः श्रोता वक्ता च विश्वकर्मणे अखिलशुभकर्माऽनुष्ठानाय [स्वाहा]=स्वाहां सत्यां वाणीम् उपदिशन् संस्त्वम् अस्मत् अस्माकं सकाशाद् द्वेषांसि द्वेषयुक्तानि कर्माणि वि+युयोधि=सततं दूरीकुरु वियोजय।। १२।। ४३।।
[यो......सूरिर्भवान् सत्यं बोधि, विश्वकर्मणे स्वाहामुपदिशन्.....अस्मद्द्वेषांसि वि+युयोधि]
Meaning of Essence
सूरिः=धार्मिकविद्वान्। विश्वकर्मणे=अखिलं सत्यासत्यं ज्ञातुमुपदेष्टुं च।
Special
सोमाहुति:। अग्निः=धार्मिक विद्वान्।। आर्चीपंक्तिः। पञ्चमः।।