Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 42

117 Mantra
12/42
Devata- अग्निर्देवता Rishi- दीर्घतमा ऋषिः Chhand- विराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
बोधा॑ मेऽअ॒स्य वच॑सो यविष्ठ॒ मꣳहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः। पीय॑ति त्वो॒ऽअनु॑ त्वो गृणाति व॒न्दारु॑ष्टे त॒न्वं वन्देऽअग्ने॥४२॥

बोध॑। मे॒। अ॒स्य। वच॑सः। य॒वि॒ष्ठ॒। मꣳहि॑ष्ठस्य। प्रभृ॑त॒स्येति॒ प्रऽभृ॑तस्य। स्व॒धा॒व॒ इति॑ स्वधाऽवः। पीय॑ति। त्वः॒। अनु॑। त्वः॒। गृ॒णा॒ति॒। व॒न्दारुः॑। ते॒। त॒न्व᳖म्। व॒न्दे॒। अ॒ग्ने॒ ॥४२ ॥

Mantra without Swara
बोधा मेऽअस्य वचसो यविष्ठ मँहिष्ठस्य प्रभृतस्य स्वधावः । पीयति त्वो अनु त्वो गृणाति वन्दारुष्टे तन्वँवन्दे अग्ने ॥

बोध। मे। अस्य। वचसः। यविष्ठ। मꣳहिष्ठस्य। प्रभृतस्येति प्रऽभृतस्य। स्वधाव इति स्वधाऽवः। पीयति। त्वः। अनु। त्वः। गृणाति। वन्दारुः। ते। तन्वम्। वन्दे। अग्ने॥४२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(बोध) अवगच्छ। अत्र द्व्यचोऽतस्तिङ इति दीर्घः (मे) मम (अस्य) वर्त्तमानस्य (वचसः) (यविष्ठ) अतिशयेन युवन् (मंहिष्ठस्य) अतिशयेन भाषितुं योग्यस्य महतः (प्रभृतस्य) प्रकर्षेण धारकस्य पोषकस्य वा (स्वधावः) प्रशस्ता स्वधा=बहून्यन्नादि विद्यन्ते यस्य सः (पीयति) निन्देत्। अत्रानेकार्था अपि धातवो भवन्तीति निन्दार्थः (त्वः) कश्चित् निन्दकः (अनु) पश्चात् (त्वः) कश्चित् (गृणाति) स्तुयात् (वन्दारुः) अभिवादनशीलः (ते) तव (तन्वम्) शरीरम् (वन्दे) स्तुवे (अग्ने) श्रोतः ।। ४२।।
Essence
यदा कश्चित्कञ्चिदध्यापयेदुपदिशेद्वा तदाऽध्येता श्रोता च ध्यानं दत्त्वा ऽधीयीत शृणुयाच्च। ।

यदा सत्यासत्ययोर्निर्णयः स्यात् तदा सत्यं गृह्णीयादसत्यं त्यजेद्।

[यदि त्वः........त्वां पीयति=निन्देत्, अनुगृणाति=स्तुयात्]
एवं कृते सति कश्चिन्निन्द्यात् कश्चित् स्तुयात् तर्ह्यपि कदाचित् सत्यं न त्यजेत् अनृतं च न भजेत्।
[तस्य ते ... अहं वन्दे]
इदमेव मनुष्यस्यासाधारणो गुणः ।। १२ । ४२।।
Subject
मनुष्याः परस्परमध्ययनाध्यापनं कथं कुर्युरित्याह ॥
Meaning of Anvay
हे यविष्ठ स्वधावोऽग्ने ! त्वं मे मम प्रभृतस्य मंहिष्ठस्यास्य वचसोऽभिप्रायं बोध। यदि त्वो यं त्वां पीयति निन्देत्त्वोऽनुगृणाति स्तुयात् तस्य ते तव तन्वं वन्दारुरहं वन्दे ।। ४२।।
सपदार्थान्वयः-- हे यविष्ठ अतिशयेन युवन्! स्वधावः प्रशस्ता स्वधा=बहुन्यन्नानि विद्यन्ते यस्य सः! अग्ने श्रोतः! त्वं मे=मम प्रभृतस्य प्रकर्षेण धारकस्य पोषकस्य वा मंहिष्ठस्य अतिशयेन भाषितुं योग्यस्य महतः अस्य वर्त्तमानस्य वचसः अभिप्रायं=बोध अवगच्छ।
यदि त्वः कश्चित् निन्दकः यं त्वां पीयति=निन्देत् त्वः कश्चिद् अनु+गृणाति=स्तुयात् पश्चात् स्तुयात्, तस्य ते=तव तन्वं शरीरं वन्दारुः अभिवादनशीलः अहं वन्दे स्तुवे।। १२। ४२।।

[हे........अग्ने ! त्वं मे=मम......वचसोऽभिप्रायं बोध]
Special
दीर्घतमाः । अग्निः=श्रोता॥ विराडार्षी त्रिष्टुप्। धैवतः।।