Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 40

117 Mantra
12/40
Devata- अग्निर्देवता Rishi- विरूप ऋषिः Chhand- निचृदार्षी Swara- षड्जः
Mantra with Swara
पुन॑रू॒र्जा निव॑र्त्तस्व॒ पुन॑रग्नऽइ॒षायु॑षा। पुन॑र्नः पा॒ह्यꣳह॑सः॥४०॥

पुनः॑। ऊ॒र्जा। नि। व॒र्त्त॒स्व॒। पुनः॑। अ॒ग्ने॒। इ॒षा। आयु॑षा। पुनः॑। नः॒। पा॒हि॒। अꣳह॑सः ॥४० ॥

Mantra without Swara
पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाह्यँहसः ॥

पुनः। ऊर्जा। नि। वर्त्तस्व। पुनः। अग्ने। इषा। आयुषा। पुनः। नः। पाहि। अꣳहसः॥४०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(पुनः) (ऊर्जा) पराक्रमेण (नि) (वर्तस्व) (पुनः) (अग्ने) (इषा) अन्नेन (आयुषा) जीवनेन (पुनः) (नः) अस्मभ्यम् (पाहि) (अंहसः) पापाचरणात् ॥ ४०॥
Essence
यथा विद्वांसो मातापितरः सुसन्तानान् विद्यया, सुशिक्षा दुष्टाचारात् पृथग्रक्षेयुः।

[हे पुत्र!......नः=अस्मान् अंहसः पाहि]
तथा--अपत्यान्यप्येतान् पापाचरणात् सततं पृथग्रक्षेयुः।

[हेतुमाह......]
नैवं विना सर्वे धर्माचारिणो भवितुं शक्नुवन्ति।
Subject
पुनर्जनकजनन्यां परस्परं वर्त्तमानं योग्यं कार्य्यमित्याह ॥
Meaning of Anvay
हे अग्ने मातः पितश्च ! त्वमिषायुषा सह नो वर्धय पुनरंहसः पाहि। हे पुत्र ! त्वमूर्जा सह निवर्तस्व। पुनर्नोऽस्मानहंसः पाहि ।। ४०।।
सपदार्थान्वयः --हे अग्ने=मातः पितश्च! त्वम् इषा अन्नेन आयुषा जीवनेन सह नः अस्मभ्यं वर्धय, पुनः अंहसः पापाचरणात् पाहि।
हे पुत्र ! त्वम् ऊर्जा पराक्रमेण सह नि+वर्त्तस्व, पुनः नः=अस्मात् अंहसः पापाचरणात् पाहि ।।

[हे अग्ने=मातः पितृश्च त्वम्.....अंहसः पाहि]
Meaning of Essence
अग्ने=विद्वन् मातः पितः! अंहसः=दुष्टाचारात्। पाहि=पृथग्रक्ष॥
Special
वत्सप्रीः। अग्निः=मातापितरौ। निचृदार्षी गायत्री। षड्जः।।