Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 4

117 Mantra
12/4
Devata- गरुत्मान् देवता Rishi- श्यावाश्व ऋषिः Chhand- भुरिग्धृतिः Swara- ऋषभः
Mantra with Swara
सु॒प॒र्णोऽसि ग॒रुत्माँ॑स्त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रं चक्षु॑र्बृहद्रथन्त॒रे प॒क्षौ। स्तोम॑ऽआ॒त्मा छन्दा॒स्यङ्गा॑नि॒ यजू॑षि॒ नाम॑। साम॑ ते त॒नूर्वा॑मदे॒व्यं य॑ज्ञाय॒ज्ञियं॒ पुच्छं॒ धिष्ण्याः॑ श॒फाः। सु॒प॒र्णोऽसि ग॒रुत्मा॒न् दिवं॑ गच्छ॒ स्वः पत॥४॥

सु॒प॒र्ण इति॑ सुऽप॒र्णः। अ॒सि॒। ग॒रुत्मा॑न्। त्रि॒वृदिति॑ त्रि॒ऽवृत्। ते॒। शिरः॑। गा॒य॒त्रम्। चक्षुः॑। बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत्ऽरथन्त॒रे। प॒क्षौ। स्तोमः॑। आ॒त्मा। छन्दा॑सि। अङ्गा॑नि। यजू॑षि। नाम॑। साम॑। ते॒। त॒नूः। वा॒म॒दे॒व्यमिति॑ वामऽदे॒व्यम्। य॒ज्ञा॒य॒ज्ञिय॒मिति॑ यज्ञाऽय॒ज्ञिय॑म्। पुच्छ॑म्। धिष्ण्याः॑। श॒फाः। सु॒प॒र्ण इति॑ सुऽप॒र्णः। अ॒सि॒। ग॒रुत्मा॑न्। दिव॑म्। ग॒च्छ॒। स्व॑रिति॒ स्वः᳖। प॒त॒ ॥१४ ॥

Mantra without Swara
सुपर्णासि गरुत्माँस्त्रिवृत्ते शिरो गायत्रञ्चक्षुर्बृहद्रथन्तरे पक्षौ । स्तोमऽआत्मा छन्दाँस्यङ्गानि यजूँषि नाम । साम ते तनूर्वामदेव्यँयज्ञायज्ञियम्पुच्छन्धिष्ण्याः शफाः । सुपर्णासि गरुत्मान्दिवङ्गच्छ स्वः पत ॥

सुपर्ण इति सुऽपर्णः। असि। गरुत्मान्। त्रिवृदिति त्रिऽवृत्। ते। शिरः। गायत्रम्। चक्षुः। बृहद्रथन्तरे इति बृहत्ऽरथन्तरे। पक्षौ। स्तोमः। आत्मा। छन्दासि। अङ्गानि। यजूषि। नाम। साम। ते। तनूः। वामदेव्यमिति वामऽदेव्यम्। यज्ञायज्ञियमिति यज्ञाऽयज्ञियम्। पुच्छम्। धिष्ण्याः। शफाः। सुपर्ण इति सुऽपर्णः। असि। गरुत्मान्। दिवम्। गच्छ। स्वरिति स्वः। पत॥१४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सुपर्णः) शोभनानि पर्णानि=लक्षणानि यस्य सः (असि) (गरुत्मान्) गुर्वात्मा (त्रिवृत्) त्रीणि कर्मोपासनाज्ञानानि वर्त्तन्ते यस्मिन् तत् (ते) तव (शिरः) शृणाति=हिनस्ति दुःखानि येन तत् (गायत्रम्) गायत्र्या विहितं विज्ञानम् (चक्षुः) नेत्रमिव (बृहद्रथन्तरे) बृहद्भीरथैस्तरन्ति दुःखानि याभ्यां सामभ्यां ते (पक्षौ) पार्श्वाविव (स्तोमः) स्तोतुमर्ह ऋग्वेदः (आत्मा) स्वरूपम् (छन्दांसि) उष्णिगादीनि (अङ्गानि) श्रोत्रादीनि (यजूंषि) यजुश्रुतयः (नाम) आख्या (साम) तृतीयो वेदः (ते) तव (तनूः) शरीरम् (वामदेव्यम्) वामदेवेन दृष्टं विज्ञातं विज्ञापितं वा (यज्ञायज्ञियम्) यज्ञाः=संगन्तव्या व्यवहारा अयज्ञास्त्यक्तव्याश्च तान् यदर्हति तत् (पुच्छम्) पुच्छमिवान्त्योऽवयवः (धिष्ण्याः) दिधिषति=शब्दयन्ति यैस्ते धिषणाः खुरोपरिभागास्तेषु साधवः (शफाः) खुराः (सुपर्णः) शोभनपतनशीलः (असि) अस्ति (गरुत्मान्) गरुतः=शब्दा विद्यन्ते यस्य सः (दिवम्) दिव्यं विज्ञानम् (गच्छ) प्राप्नुहि (स्वः) सुखम् (पत) गृहाण ॥ ४ ॥
Essence
[हे विद्वन् ! ...... त्वं सुपर्णोऽसि]
भावार्थ:-- अत्र वाचकलुप्तोपमालङ्कारः॥ यथा सुन्दर शाखा-पत्र-पुष्प-फल-मूला वृक्षाः शोभन्ते तथा वेदादिशास्त्राऽध्येतारोऽध्यापकाः सुरोचन्ते।
[पुच्छं धिष्ण्याः, सुपर्णोऽसि, स इव दिवं गच्छ]
यथा पशवः पुच्छाद्यवयवैः स्वकार्याणि साध्नुवन्ति, यथा च पक्षी पक्षाभ्यामाकाशान्मार्गेण गत्वाऽऽगत्य च मोदते तथा--
[स्वः पत]
मनुष्या विद्या-सुशिक्षाः प्राप्य पुरुषार्थेन सुखान्याप्नुवन्तु ।। १२ । ४ ।।
Subject
पुनर्विद्वद्गुणा उपदिश्यन्ते ॥
Meaning of Anvay
अन्वयः -- हे विद्वन् ! यतस्ते तव त्रिवृत् शिरो गायत्रं चक्षुर्बृहद्रथन्तरे पक्षौ स्तोम आत्मा छन्दांस्यङ्गानि यजूंषि नाम यज्ञायज्ञियं वामदेव्यं साम ते तनूश्चास्ति तस्मात् त्वं गरुत्मान् सुपर्णोऽस्यस्ति स इव त्वं दिवं गच्छ स्वः पत ।। ४।।
सपदार्थान्वयः -- हे विद्वन्! यतस्ते=तव त्रिवृत् त्रीणि कर्मोपासनाज्ञानानि वर्तन्ते यस्मिन् तत् शिरः शृणाति=हिनस्ति दुःखानि येन तद्, गायत्रं गायत्र्या विहितं विज्ञानं चक्षुः नेत्रमिव, बृहद्रथन्तरे बृहद्भी रथैस्तरन्ति दुःखानि याभ्यां सामभ्यां ते पक्षौ पार्श्वाविव, स्तोमः स्तोतुमर्ह ऋग्वेदः आत्मा स्वरूपं छन्दांसि उष्णिगादीनि अङ्गानि श्रोत्रादीनि, यजूंषि यजुःश्रुतयः नाम आख्या, यज्ञायज्ञियं यज्ञाः=सङ्गन्तव्या व्यवहारा अयज्ञास्त्यक्तव्याश्च तान् यदर्हति तद् वामदेव्यं वामदेवेन दृष्टं=विज्ञातं विज्ञापितं वा साम तृतीयो वेद: ते तव [पुच्छम्] पुच्छमिवाऽन्त्योऽवयवः, [धिष्ण्याः] दिधिषन्ति= शब्दयन्ति यैस्ते धिषणा:=खुरोपरिभागास्तेषु साधव: [शफाः] खुरा: तनूः शरीरं चाऽस्ति; तस्मात् त्वं गरुत्मान् गरुतः=शब्दा विद्यन्ते यस्य सः सुपर्णः शोभनपतनशीलः असि=अस्ति; स इव त्वं दिवं दिव्यं विज्ञानं गच्छ प्राप्नुहि; स्वः सुखं पत गृहाण ।। १२ । ४ ।।
Meaning of Essence
भा० पदार्थ:--सुपर्ण:=सुन्दर शाखा-पत्र-पुष्प-फल-मूलो वृक्षः, वेदादिशास्त्राध्येताऽध्यापकः, पक्षी च॥
Special
श्यावाश्वः । गरुत्मान्=विद्वान् ॥ धृतिः । ऋषभः ।।