Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 39

117 Mantra
12/39
Devata- अग्निर्देवता Rishi- विरूप ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने। शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॑स्या शि॒वत॑मः॥३९॥

पुनः॑। आ॒सद्येत्या॒ऽसद्य॑। सद॑नम्। अ॒पः। च॒। पृ॒थि॒वीम्। अ॒ग्ने॒। शेषे॑। मा॒तुः। यथा॑। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। अ॒न्तः। अ॒स्या॒म्। शि॒वत॑म॒ इति॑ शि॒वऽत॑मः ॥३९ ॥

Mantra without Swara
पुनरासद्य सदनमपश्च पृथिवीमग्ने । शेषे मातुर्यथोपस्थे न्तरस्याँ शिवतमः ॥

पुनः। आसद्येत्याऽसद्य। सदनम्। अपः। च। पृथिवीम्। अग्ने। शेषे। मातुः। यथा। उपस्थ इत्युपऽस्थे। अन्तः। अस्याम्। शिवतम इति शिवऽतमः॥३९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(पुनः) (आसद्य) आगत्य (सदनम्) गर्भस्थानम् (अपः) (च) भोजनादिकम् (पृथिवीम्) भूमितलम् (अग्ने) इच्छादिगुणप्रकाशित (शेषे) स्वपिषि (मातुः) जनन्याः (यथा) (उपस्थे) उत्संगे (अन्तः) आभ्यन्तरे (अस्याम्) मातरि (शिवतमः) प्रतिशयेन मङ्गलकारी ॥ ३९॥
Essence
पुत्रैः यथा मातरः स्वापत्यानि सुखयन्ति, तथैवानुकूलया सेवया स्वमातरः सततमानन्दयितव्याः न । च कदाचिन्मातापितृभ्यां विरोधः समाचरणीयः। न च मातापितृभ्यामेते ऽधर्मकुशिक्षा युक्ताः कदाचित्कार्याः ।। १२। ३९।।
Subject
अथ मातापित्रपत्यानि परस्परं कथं वर्त्तेरन्नित्याह॥
Meaning of Anvay
हे अग्ने ! यतस्त्वमपः पृथिवीं च सदनं पुनरासद्यऽस्यामन्तः शिवतमः सन् यथा बालो मातुरुपस्थे शेषे तस्मादस्यां शिवतमो भव ।। ३९।।
सपदार्थान्वयः-- हे अग्ने इच्छादिगुणप्रकाशित! यतस्त्वम् अपः पृथिवीं भूमितलं च भोजनादिकं सदनं गर्भस्थानं पुनः आसद्य आगत्य अस्यां मातरि अन्तः आभ्यन्तरे शिवतमः अतिशयेन मङ्गलकारी सन् यथा बालो मातुः जनन्याः उपस्थे उत्सङ्गे शेषे स्वपिषि, तस्माद् अस्यां मातरि शिवतमः अतिशयेन मंगलकारी भव॥

[हे अग्ने!.....त्वं.......यथा बालो मातुरुपस्थे शेषे, तस्मादस्यां शिवतमो भव]
Special
विरूपः। अग्निः=जीवः॥ निचृदनुष्टुप्। गांधारः॥