Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 37

117 Mantra
12/37
Devata- अग्निर्देवता Rishi- विरूप ऋषिः Chhand- भुरिगार्ष्युष्णिक् Swara- ऋषभः
Mantra with Swara
गर्भो॑ऽअ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम्। गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ऽअ॒पाम॑सि॥३७॥

गर्भः॑। अ॒सि॒। ओष॑धीनाम्। गर्भः॑। वन॒स्पती॑नाम्। गर्भः॑। विश्व॑स्य। भू॒तस्य॑। अग्ने॑। गर्भः॑। अ॒पाम्। अ॒सि॒ ॥३७ ॥

Mantra without Swara
गर्भाऽअस्योषधीनाङ्गर्भा वनस्पतीनाम् । गर्भा विश्वस्य भूतस्याग्ने गर्भा अपामसि ॥

गर्भः। असि। ओषधीनाम्। गर्भः। वनस्पतीनाम्। गर्भः। विश्वस्य। भूतस्य। अग्ने। गर्भः। अपाम्। असि॥३७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(गर्भः) योऽनर्थान् गिरति=विनाशयति सः। गर्भो गृभेर्गृणात्यर्थे गिरस्यनर्थानिति यदा हि स्त्री गुणान् गृह्णाति गुणाश्चास्या गृह्यन्तेऽथ गर्भो भवति ॥ निरु० १०। २३॥ (असि) (ओषधीनाम्) सोमयवादीनाम् (गर्भः) (वनस्पतीनाम्) अश्वत्थादीनाम् (गर्भः) (विश्वस्य) सर्वस्य (भूतस्य) उत्पन्नस्य (अग्ने) देहान्तप्रापक जीव (गर्भः) (अपाम्) प्राणानां जलानां वा (असि)।। ३७ ।।
Essence
अत्र वाचकलुप्तोपमालङ्कारैः।। हे मनुष्याः! ये विद्युद्वत् सर्वान्तर्गता जीवा जन्मवन्तः सन्ति, तान् जानन्त्विति ।। १२। ३७।।
Subject
पुनर्जीवस्य क्व क्व गतिर्भवतीत्याह॥
Meaning of Anvay
हे अग्ने! अग्नितुल्यजीव यतस्त्वमग्निरिवौषधीनां गर्भो वनस्पतीनां गर्भः। विश्वस्य भूतस्य गर्भोऽपां गर्भश्चासि तस्मात्त्वमजोऽसि ।। ३७ ।।
सपदार्थान्वयः-- हे अग्ने=अग्नितुल्यजीव देहान्तप्रापक जीव ! यतस्त्वमग्निरिव ओषधीनां सोमयवाऽऽदीनां गर्भः योऽनर्थान् गिरति=विनाशयति सः, वनस्पतीनां अश्वत्थाऽऽदीनां गर्भः योऽनर्थान् गिरति=विनाशयति सः, विश्वस्य सर्वस्य भूतस्य उत्पन्नस्य गर्भः योऽनर्थान् गिरति=विनाशयति सः, अपां प्राणानां जलानां वा गर्भः योऽनर्थान् गिरति=विनाशयति सः, च असि । तस्मात्त्वमजो असि ।।
[हे अग्ने!....त्वमग्निरिवौषधीनां गर्भः.....असि]
Special
विरूपः। अग्निः=जीवः॥ भुरिगार्ष्युष्णिक्। ऋषभः॥