Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 36

117 Mantra
12/36
Devata- अग्निर्देवता Rishi- विरूप ऋषिः Chhand- निचृद्गायत्री Swara- षड्जः
Mantra with Swara
अ॒प्स्वग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे। गर्भे॒ सञ्जा॑यसे॒ पुनः॑॥३६॥

अ॒प्स्वित्य॒प्ऽसु। अ॒ग्ने॒। सधिः॑। तव॑। सः। ओष॑धीः। अनु॑। रु॒ध्य॒से॒। गर्भे॑। सन्। जा॒य॒से॒। पुन॒रिति॒ पुनः॑ ॥२६ ॥

Mantra without Swara
अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे । गर्भे सन्जायसे पुनः ॥

अप्स्वित्यप्ऽसु। अग्ने। सधिः। तव। सः। ओषधीः। अनु। रुध्यसे। गर्भे। सन्। जायसे। पुनरिति पुनः॥२६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अप्सु) जलेषु (अग्ने) अग्निवद्वर्त्तमान विद्वन् (सधिः) षोढा ! अत्र वर्णव्यत्ययेन हस्य धः। इश्च प्रत्ययः (तव) (सः) सोऽचि लोपे चेत्पादपूरणमिति सन्धिः (ओषधीः) सोमादीन् (अनु) (रुध्यसे) (गर्भे) कुक्षौ (सन्) (जायसे) (पुनः) ।। ३६ ।।
Essence
ये जीवाः शरीरं त्यजन्ति ते वाय्वोषध्यादिषु च भ्रान्त्या गर्भं प्राप्य यथासमयं सशरीरा भूत्वा पुनर्जायन्ते ।। १२। ३६।।
Subject
अथ जीवाः कथं कथं पुनर्जन्म प्राप्नुवन्तीत्याह ॥
Meaning of Anvay
हे अग्ने अग्निरिव जीव! सधिर्यस्त्वमप्सु गर्भे ओषधीरनुरुध्यसे स त्वं गर्भे स्थितः सन् पुनर्जायसे। इमावेकक्रमानुक्रमौ तव स्त इति जानीहि ।। ३६।।
सपदार्थान्वयः -- हे अग्ने=अग्निरिव जीव अग्निवद्वर्तमान विद्वन् ! सधिः षोढा यस्त्वम् अप्सु जलेषु गर्भे कुक्षौ ओषधीः सोमादीन् अनु+रुध्यसे, सः त्वं गर्भे कुक्षौ स्थितः सन् पुनः जायसे। इमावेकक्रमानुक्रमौ तव स्त इति जानीहि॥
[हे अग्ने=अग्निरिवजीव !.....त्वमप्सु........ओषधीरनुरुध्यसे, त्वं गर्भे स्थितः सन् पुनर्जायसे]
Meaning of Essence
अप्सु=वायौ ।
Special
विरूपः। अग्निः=जीवः॥ निचृद्गायत्री। षड्जः ।।