Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 35

117 Mantra
12/35
Devata- आपो देवताः Rishi- वसिष्ठ ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आपो॑ देवीः॒ प्रति॑गृभ्णीत॒ भस्मै॒तत् स्यो॒ने कृ॑णुध्वꣳ सुर॒भाऽउ॑ लो॒के। तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी॑र्मा॒तेव॑ पु॒त्रं बि॑भृता॒प्स्वेनत्॥३५॥

आपः॑। दे॒वीः॒। प्रति॑। गृ॒भ्णी॒त॒। भस्म॑। ए॒तत्। स्यो॒ने। कृ॒णु॒ध्व॒म्। सु॒र॒भौ। ऊँ॒ इत्यूँ॑। लो॒के। तस्मै॑। न॒म॒न्ता॒म्। जन॑यः। सु॒पत्नी॒रिति॑ सु॒ऽपत्नीः॑। मा॒तेवेति॑ मा॒ताऽइ॑व। पु॒त्रम्। बि॒भृ॒त॒। अ॒प्स्वित्य॒प्ऽसु। ए॒न॒त् ॥३५ ॥

Mantra without Swara
आपो देवीः प्रति गृभ्णीत भस्मैतत्स्योने कृणुध्वँसुरभा लोके । तस्मै नमन्ताञ्जनयः सुपत्नीर्मातेव पुत्रम्बिभृताप्स्वेनत् ॥

आपः। देवीः। प्रति। गृभ्णीत। भस्म। एतत्। स्योने। कृणुध्वम्। सुरभौ। ऊँ इत्यूँ। लोके। तस्मै। नमन्ताम्। जनयः। सुपत्नीरिति सुऽपत्नीः। मातेवेति माताऽइव। पुत्रम्। बिभृत। अप्स्वित्यप्ऽसु। एनत्॥३५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आपः) पवित्रजलानीव सकलशुभगुणव्यापिकाः कन्याः (देवीः) दिव्यरूपशीलाः (प्रति) (गृभ्णीत) स्वीकुर्वीत (भस्म) प्रदीपकं तेजः (एतत्) (स्योने) सुसुखकारिके (कृणुध्वम्) (सुरभौ) ऐश्वर्यप्रकाशके। अत्र षुर ऐश्वर्यदीप्त्योरित्यस्माद्बाहुलकादौणादिकोऽभिच प्रत्ययः (उ) (लोके) द्रष्टव्ये (तस्मै) (नमन्ताम्) नम्राः सन्तु (जनयः) विद्यासुशिक्षया प्रादुर्भूताः (सुपत्नीः) शोभनाश्च ताः पत्न्यश्च ताः (मातेव) (पुत्रम्) (बिभृत) धरत (अप्सु) प्राणेषु (एनत्) अपत्यम् ।। ३५ ।।
Essence
अत्रोपमालङ्कारः।। मनुष्यैः परस्परं प्रसन्नतया स्वयंवरं विवाहं विधाय, धर्मेण सन्तानानुत्पाद्य, एतान् विदुषः कृत्वा गृहाश्रमैश्वर्यमुन्नेयम्।। १२ । ३५ ।। '
Subject
अथ सर्वैर्मनुष्यैः स्वयंवरो विवाहः कार्य इत्याह॥
Meaning of Anvay
हे विद्वांसो मनुष्याः! या आपो देवी: सुरभौ लोके पतीन् सुखिनः कुर्वन्ति ताः प्रतिगृभ्णीतैताः सुखिनीः कृणुध्वम्। यतेतद्भस्मास्ति तस्मै याः सुपत्नीर्जनयो नमन्ति ताः प्रतिभवन्तोऽपि नमन्तामुभये मिलित्वा पुत्रं मातेवाप्स्वेनद्बिभृत ।। ३५ ।।
सपदार्थान्वयः -- हे विद्वांसो मनुष्याः ! या आपः पवित्रजलानीव सकलशुभगुणव्यापिकाः कन्याः देवीः दिव्यरूपशीलाः सुरभौ ऐश्वर्य्यप्रकाशके लोके द्रष्टव्ये पतीन् सुखिनः कुर्वन्ति, ताः प्रति+गृभ्णीत स्वीकुर्वीति, एताः सुखिनीः कृणुध्वम्।
यदेतद् भस्म प्रदीपकं तेजः अस्ति, तस्मै याः सुपत्नीः शोभनाश्च ताः पत्न्यश्च ताः जनयः विद्यासुशिक्षया प्रादुर्भूताः नमन्ति, ताः प्रति भवन्तोऽपि नमन्तां नम्राः सन्तु।
उभये मिलित्वा पुत्रं मातेव अप्सु प्राणेषु एनत् अपत्यं बिभृत धरत।। १२ । ३५ ।।
[हे विद्वांसो मनुष्याः! या आपो देवी: ...]
Special
वशिष्ठः। आपः=कन्याः। आर्षीत्रिष्टुप्। धैवतः।।