Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 34

117 Mantra
12/34
Devata- अग्निर्देवता Rishi- वसिष्ठ ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृहद्भाः। अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒ दै॒व्यो॒ऽअति॑थिः शि॒वो नः॑॥३४॥

प्रप्रेति॒ प्रऽप्र॑। अ॒यम्। अ॒ग्निः। भ॒र॒तस्य॑। शृ॒ण्वे॒। वि। यत्। सूर्य्यः॑। न। रोच॑ते। बृ॒हत्। भाः। अ॒भि। यः। पू॒रुम्। पृत॑नासु। त॒स्थौ। दी॒दाय॑। दैव्यः॑। अति॑थिः। शि॒वः। नः॒ ॥३४ ॥

Mantra without Swara
प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्या न रोचते बृहद्भाः । अभि यः पूरुम्पृतनासु तस्थौ दीदाय दैव्योऽअतिथिः शिवो नः ॥

प्रप्रेति प्रऽप्र। अयम्। अग्निः। भरतस्य। शृण्वे। वि। यत्। सूर्य्यः। न। रोचते। बृहत्। भाः। अभि। यः। पूरुम्। पृतनासु। तस्थौ। दीदाय। दैव्यः। अतिथिः। शिवः। नः॥३४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(प्रप्र) अतिप्रकर्षेण (अयम्) (अग्निः) सेनेशः (भरतस्य) पालितव्यस्य राज्यस्य (शृण्वे) (वि) (यत्) यः (सूर्य्यः) सविता (न) इव (रोचते) प्रकाशते (बृहद्भाः) महाप्रकाशः (अभि) (यः) (पूरुम्) पूर्णबलं सेनाध्यक्षम्। पूरव इति मनुष्यना० ॥ निघं० २ । ३ ॥ (पृतनासु) सेनासु (तस्थौ) तिष्ठेत् (दीदाय) धर्मं प्रकाशयेत् (दैव्यः) देवेषु=विद्वत्सु प्रीतः (अतिथिः) नित्यं भ्रमणकर्त्ता विद्वान् (शिवः) मङ्गलप्रदः (नः) अस्मान् ।। ३४ ।।
Essence
अत्रोपमालङ्कारः॥ यस्य पुण्यकीर्त्तेः पुरुषस्य शत्रुषु विजयो विद्याप्रचारश्च श्रूयते, स कुलीनः सेनाया योधयिताऽधिकर्त्तव्यः॥
Subject
पुनः कीदृशं जनं राजव्यवहारे नियुञ्जीरन्नित्याह॥
Meaning of Anvay
अन्वयः - हे राजप्रजाजनाः ! यूयं यद्योऽयमग्निः सूर्यो न बृहद्भाः प्रप्ररोचते। यो नः पृतनासु पूरुमभि तस्थौ दैव्योऽतिथिः शिवो विद्या दीदाय। यत्ते विजयो विद्या च श्रूयेत स लब्धलक्षः कुलीनः सेनाया योधयिताऽधिकर्त्तव्यः ।। ३४ ।।
सपदार्थान्वयः -- हे राजप्रजाजनाः ! यूयं यद्=योऽयमग्निः सेनेशः सूर्य्यः सविता न इव बृहद्भाः महाप्रकाशः प्रप्र+रोचते अतिप्रकर्षेण प्रकाशते; यो नः अस्मान् पृतनासु सेनासु पूरुं पूर्णबलं सेनाऽध्यक्षम् अभि+तस्थौ तिष्ठेत्, दैव्यः देवेषु=विद्वत्सु प्रीतः अतिथिः नित्यं भ्रमणकर्त्ता विद्वान् शिवः मङ्गलप्रदः विद्या दीदाय धर्मं प्रकाशयेत् यत् यः ते [भरतस्य] पालितव्यस्य राज्यस्य वि+शृण्वे=विजयो विद्या च श्रूयेत, स लब्धलक्षः कुलीनः सेनाया योधयिताऽधिकर्त्तव्यः॥
[यत् ते [भरतस्य वि+शृण्वे] स…..कुलीनः सेनाया योधयिताऽधिकर्त्तव्यः]
Meaning of Essence
भरतस्य=पुण्यकीर्त्तेः पुरुषस्य। विशृण्वे=शत्रुषु विजयो विद्याप्रचारश्च श्रूयते॥
Special
वसिष्ठः। अग्निः=सेनेशः॥ आर्षीत्रिष्टुप्। धैवतः ॥