Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 33

117 Mantra
12/33
Devata- अग्निर्देवता Rishi- वत्सप्रीर्ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद् वी॒रुधः॑ सम॒ञ्जन्। सद्यो॒ ज॑ज्ञा॒नो वि हीमि॒द्धोऽअख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः॥३३॥

अक्र॑न्दत्। अ॒ग्निः। स्त॒नय॑न्नि॒वेति॑ स्त॒नय॑न्ऽइव। द्यौः। क्षामा॑। रेरि॑हत्। वी॒रुधः॑। स॒म॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। स॒द्यः ज॒ज्ञा॒नः। वि। हि। ई॒म्। इ॒द्धः। अख्य॑त्। आ। रोद॑सीऽइति॒ रोद॑सी। भा॒नुना॑। भा॒ति॒। अ॒न्तरित्य॒न्तः ॥३३ ॥

Mantra without Swara
अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीमिद्धोऽअख्यदा रोदसी भानुना भात्यन्तः ॥

अक्रन्दत्। अग्निः। स्तनयन्निवेति स्तनयन्ऽइव। द्यौः। क्षामा। रेरिहत्। वीरुधः। समञ्जन्निति सम्ऽअञ्जन्। सद्यः जज्ञानः। वि। हि। ईम्। इद्धः। अख्यत्। आ। रोदसीऽइति रोदसी। भानुना। भाति। अन्तरित्यन्तः॥३३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अक्रन्दत्) विजानाति (अग्निः) शत्रुदाहको विद्वान् (स्तनयन्निव) विद्युद्वद्भर्जयन् (द्यौः) विद्यान्यायप्रकाशक: (क्षामा) भूमिम् (रेरिहत्) भृशं युध्यस्व (वीरुधः) वनस्थान् वृक्षान् (समञ्जन्)
सम्यक् रक्षन् (सद्यः) तूर्णम् (जज्ञानः) राजनीत्या प्रादुर्भूतः (वि) (हि) खलु (ईम्) सर्वतः (इद्धः) शुभलक्षणैः प्रकाशितः (अख्यत्) धर्म्यानुपदेशान् प्रकथयः (आ) (रोदसी) अग्निभूमी (भानुना) पुरुषार्थप्रकाशेन (भाति) (अन्तः) राजधर्म्ममध्ये स्थितः।। ३३ ।।
Essence
अत्रोपमावाचकलुप्तोपमालङ्कारौ।। न हि वनवृक्षरक्षणेन विना वृष्टिबाहुल्यम्, आरोग्यं, तडिद्व्यवहारवद् दूरसमाचारग्रहणेन शत्रुविनाशनेन राज्ये विद्यान्यायप्रकाशेन च विना सुराज्यं च जायते ।। १२ । ३३ ।।
Subject
राज्यप्रबन्धः कथं कार्य्य इत्युपदिश्यते॥
Meaning of Anvay
हे प्रजाजनाः ! युष्माभिर्यथा द्यौरग्निः स्तनयन्निवाक्रन्दद्वीरुधः समञ्जन् क्षामा रेरिहत् जज्ञान इद्धः सद्यो व्यख्यत् भानुना हि रोदसी अन्तराभाति तथा स राजा भवितुं योग्योऽस्तीति वेद्यम्।। ३३।।
सपदार्थान्वयः - हे प्रजाजनाः! युष्माभिर्यथा द्यौः विद्यान्यायप्रकाशकः अग्निः शत्रुदाहको विद्वान् स्तनयन्निव विद्युद्वद्भर्जयन् अक्रन्दत् विजानाति, वीरुधः वनस्थान् वृक्षान् समञ्जन् सम्यग् रक्षन् क्षामा भूमिं रेरिहत् भृशं युध्यति, जज्ञानः राजनीत्या प्रादुर्भूतः इद्धः शुभलक्षणैः प्रकाशितः सद्यः तूर्णं वि+ अख्यत् धर्म्यानुपदेशान् प्रकथयति, भानुना पुरुषार्थप्रकाशेन हि खलु रोदसी अग्निभूमी अन्तः राजधर्म्ममध्ये स्थितः आ+भाति, तथा स राजा भवितुं योग्योऽस्तीति वेद्यम् ।। १२ । ३३ ।।
[वीरुधः समञ्जन्, अग्निः स्तनयन्निवाक्रन्दत्, द्यौः]
Meaning of Essence
वीरुधः=वनवृक्षाः। स्तनयन्निव=तडिद्व्यवहारवत् ।
Special
वत्सप्रीः। अग्निः=शत्रुदाहको विद्वान्॥ निचृदार्षी त्रिष्टुप्। धैवत्तः॥