Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 31

117 Mantra
12/31
Devata- अग्निर्देवता Rishi- तापस ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
उदु॑ त्वा॒ विश्वे॑ दे॒वाऽअग्ने॒ भर॑न्तु॒ चित्ति॑भिः। स नो॑ भव शि॒वस्त्वꣳ सु॒प्रती॑को वि॒भाव॑सुः॥३१॥

उत्। ऊँ॒इत्यूँ॑। त्वा॒। विश्वे॑। दे॒वाः। अग्ने॑। भर॑न्तु। चित्ति॑भि॒रिति॒ चित्ति॑ऽभिः। सः। नः॒। भ॒व॒। शि॒वः। त्वम्। सु॒प्रती॑क॒ इति॑ सु॒ऽप्रती॑कः। वि॒भाव॑सु॒रिति॑ वि॒भाऽव॑सुः ॥३१ ॥

Mantra without Swara
उदु त्वा विश्वे देवाऽअग्ने भरन्तु चित्तिभिः । स नो भव शिवस्त्वँ सुप्रतीको विभावसुः ॥

उत्। ऊँइत्यूँ। त्वा। विश्वे। देवाः। अग्ने। भरन्तु। चित्तिभिरिति चित्तिऽभिः। सः। नः। भव। शिवः। त्वम्। सुप्रतीक इति सुऽप्रतीकः। विभावसुरिति विभाऽवसुः॥३१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उत्) (उ) (त्वा) (विश्वे) सर्वे (देवाः) विद्वांसः (अग्ने) विद्वन् (भरन्तु) पुष्णन्तु (चित्तिभिः) सम्यग् विज्ञानैस्सह (सः) (नः) अस्मभ्यम् (भव) (शिवः) मङ्गलोपदेष्टा (त्वम्) (सुप्रतीकः) शोभनानि प्रतीकानि=लक्षणानि यस्य सः (विभावसुः) येन विविधा भा=विद्यादीप्तिर्वास्यते ।। ३१ ।।
Essence
यो यथा विद्वद्भ्यो विद्यां संचिनोति, तथैवान्यान् विद्यासंचितान् संपादयेत् ॥
Subject
विद्वान् स्वतुल्यानन्यान् विदुषः कुर्यात्॥
Meaning of Anvay
हे अग्ने विद्वन् ! यं त्वा विश्वे देवाश्चित्तिभिरुदुभरन्तु स विभावसुः सुप्रतीकस्त्वं नः शिवो भव ।। ३१ ।।
सपदार्थान्वयः -- हे अग्ने=विद्वन् ! यं त्वा विश्वे सर्वे देवाः विद्वांसः चित्तिभिः सम्यग् विज्ञानैः सह उद् उ भरन्तु पुष्णन्तु सः विभावसुः येन विविधा भा=विद्यादीप्तिर्वास्यते, सुप्रतीकः शोभनानि प्रतीकानि=लक्षणानि यस्य सः, त्वं नः अस्मभ्यं शिवः मङ्गलोपदेष्टा भव ।। १२ । ३१ ॥
[हे अग्ने=विद्वन्! यं त्वा…..देवाश्चित्तिभिरुद्भरन्तु स……त्वं नः शिवो भव]
Meaning of Essence
चित्तिभिः=विद्यासंचयैः।
Special
तापसः । अग्निः=विद्वान्॥ विराडनुष्टुप् । गान्धारः॥