Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 3

117 Mantra
12/3
Devata- सविता देवता Rishi- श्यावाश्व ऋषिः Chhand- विराड् जगती Swara- निषादः
Mantra with Swara
विश्वा॑ रू॒पाणि॒ प्रति॑मुञ्चते क॒विः प्रासा॑वीद् भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे। वि नाक॑मख्यत् सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ विरा॑जति॥३॥

विश्वा॑। रू॒पाणि॑। प्रति॑। मु॒ञ्च॒ते॒। क॒विः। प्र। अ॒सा॒वी॒त्। भ॒द्रम्। द्वि॒पद॒ इति॑ द्वि॒ऽपदे॑। चतु॑ष्पदे। चतुः॑पद॒ इति॑ चतुः॑पदे। वि। नाक॑म्। अ॒ख्य॒त्। स॒वि॒ता। वरे॑ण्यः। अनु॑। प्र॒याण॑म्। प्र॒यान॒मिति॑ प्र॒ऽयान॑म्। उ॒षसः॑। वि। रा॒ज॒ति॒ ॥३ ॥

Mantra without Swara
विश्वा रूपाणि प्रतिमुञ्चते कविः प्रासावीद्भद्रन्द्विपदे चतुष्पदे । वि नाकमख्यत्सविता वरेण्योनु प्रयाणमुषसो वि राजति ॥

विश्वा। रूपाणि। प्रति। मुञ्चते। कविः। प्र। असावीत्। भद्रम्। द्विपद इति द्विऽपदे। चतुष्पदे। चतुःपद इति चतुःपदे। वि। नाकम्। अख्यत्। सविता। वरेण्यः। अनु। प्रयाणम्। प्रयानमिति प्रऽयानम्। उषसः। वि। राजति॥३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(विश्वा) सर्वाणि (रूपाणि) (प्रति) (मुञ्चते) (कविः) क्रान्तदर्शनः कान्तप्रज्ञः सर्वज्ञो वा (प्र) (असावीत्) उत्पादयति (भद्रम्) जननीयं सुखम् (द्विपदे) मनुष्याद्याय (चतुष्पदे) गवाद्याय (वि) (नाकम्) सर्वदुःखरहितम् (अख्यत्) प्रकाशयति (सविता) सकलजगत्प्रसविता जगदीश्वरः सूर्यो वा (वरेण्यः) स्वीकर्तुमर्हः (अनु) (प्रयाणम्) प्रकृष्टं प्रापणम् (उषसः) प्रभातस्य (वि) (राजति) प्रकाशते ।। ३।।
Essence
अत्र श्लेषालङ्कारः। येन जगदीश्वरेण सकलरूपप्रकाशकः, प्राणिनां सुखहेतुः, प्रकाशमानः सूर्यो रचितस्तस्यैव भक्तिं सर्वे मनुष्याः कुर्वन्त्विति ।। १२। ३।।
Subject
अथाग्रे परमात्मनः कृत्यमुपदिश्यते ॥
Meaning of Anvay
हे मनुष्याः! यो वरेण्यः कविः सवितोषसः प्रयाणमनुविराजति विश्वा रूपाणि प्रतिमुञ्चते। द्विपदे चतुष्पदे नाकं व्यख्यत् भद्रं प्रासावीत्तमीदृशमुत्पादकं सूर्यं परमेश्वरं विजानीत ।। ३ ।।
[सूर्यः]
सपदार्थान्वयः-- हे मनुष्याः ! यो वरेण्यः स्वीकर्तुमर्हः कविः क्रान्तदर्शनः सविता सकलजगत्प्रसविता सूर्यः उषसः प्रभातस्य प्रयाणं प्रकृष्टं प्रापणम् अनु+वि+राजति प्रकाशते, विश्वा सर्वाणि रूपाणि प्रति+मुञ्चते, द्विपदे मनुष्याद्याय चतुष्पदे गवाद्याय नाकं सर्वदुःखरहितं वि +अख्यत् प्रकाशयति, भद्रं जननीयं सुखं प्र+असावीत् उत्पादयति, तमीदृशमुत्पादकं सूर्यं विजानीत॥
[परमेश्वरः]
हे मनुष्याः! यो वरेण्यः स्वीकर्तुमर्हः कविः क्रान्तप्रज्ञः सर्वज्ञो वा सविता सकलजगत्प्रसविता जगदीश्वरः उषसः प्रभातस्य प्रयाणं प्रकृष्टं प्रापणम् अनु+वि+राजते प्रकाशते, विश्वा सर्वाणि रूपाणि प्रति+मुञ्चते, द्विपदे मनुष्याद्याय चतुष्पदे गवाद्याय नाकं सर्वदुःखरहितं वि+अख्यत् प्रकाशयति, भद्रं जननीयं सुखं प्र+असावीत् उत्पादयति तमीदृशमुत्पादकं परमेश्वरं विजानीत।। १२ । ३ ।।
[हे मनुष्या! यो.......सविता......विश्वा रूपाणि प्रतिमुञ्चते, द्विपदे चतुष्पदे नाकं व्यख्यत्.....तं....... परमेश्वरं विजानीत]
References
भा० पदार्थ:-- प्रतिमुञ्चते=प्रकाशयति। नाकम्=प्राणिनां सुखहेतुः।
Special
श्यावाश्वः। सविता=परमात्मा । विराड्जगती । निषादः ।।