Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 29

117 Mantra
12/29
Devata- अग्निर्देवता Rishi- वत्सप्रीर्ऋषिः Chhand- विराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अस्ता॑व्य॒ग्निर्न॒राꣳ सु॒शेवो॑ वैश्वान॒रऽऋषि॑भिः॒ सोम॑गोपाः। अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म्॥२९॥

अस्ता॑वि। अ॒ग्निः। न॒राम्। सु॒शेव॒ इति॑ सु॒ऽशेवः॑। वै॒श्वा॒न॒रः। ऋषि॑भि॒रित्यृषि॑ऽभिः। सोम॑गोपा॒ इति॒ सोम॑ऽगोपाः। अ॒द्वे॒षेऽइत्य॑द्वे॒षे। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। हु॒वे॒म॒। देवाः॑। ध॒त्त। र॒यिम्। अ॒स्मेऽइत्य॒स्मे। सु॒वीर॒मिति॑ सु॒ऽवीर॑म् ॥२९ ॥

Mantra without Swara
अस्ताव्यग्निर्नराँ सुशेवो वैश्वानर ऋषिभिः सोमगोपाः । अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥

अस्तावि। अग्निः। नराम्। सुशेव इति सुऽशेवः। वैश्वानरः। ऋषिभिरित्यृषिऽभिः। सोमगोपा इति सोमऽगोपाः। अद्वेषेऽइत्यद्वेषे। द्यावापृथिवीऽइति द्यावापृथिवी। हुवेम। देवाः। धत्त। रयिम्। अस्मेऽइत्यस्मे। सुवीरमिति सुऽवीरम्॥२९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(प्रस्तावि) स्तूयते (अग्निः) परमेश्वरः (नराम्) नायकानां विदुषाम् (सुशेवः) सुष्ठुसुखः। शेवमिति सुखना०॥ निघं० ३ । ६॥ (वैश्वानरः) विश्वे सर्वे नरा यस्मिन् स एव (ऋषिभिः) वेदविद्भिर्विद्वद्भिः (सोमगोपाः) ऐश्वर्यपालकाः (अद्वेषे) द्वेष्टुमनर्हे प्रीतिविषये (द्यावापृथिवी) राजनीतिभूराज्ये (हुवेम) स्वीकुर्याम (देवाः) शत्रून् विजिगीषमाणाः (धत्त) धरत (रयिम्) राज्यश्रियम् (अस्मे) अस्मभ्यम् (सुवीरम्) शोभना वीरा यस्मात्तम्॥ २९॥
Essence
ये सच्चिदानन्दस्वरूपेश्वरसेवका धार्मिका विद्वांसः सन्ति, ते परोपकारकत्वादाप्ता भवन्ति, नहीदृशानां संगमन्तरा सुस्थिरे विद्याराज्ये कर्त्तुं शक्नुवन्ति ।। १२ । २९।।
Subject
पुनस्तत्संगेन किं भवतीत्याह॥
Meaning of Anvay
हे देवाः ! यैर्युष्माभिर्ऋषिभिर्यो नरां सुशेवो वैश्वानरोऽग्निरस्तावि ये यूयमस्मे सुवीरं धत्त तदाश्चिताः सोमगोपा वयमद्वेषे द्यावापृथिवी हुवेम।। २९।।
सपदार्थान्वयः -- हे देवाः शत्रून् विजिगीषमाणाः! यैर्युष्माभिर्ऋषिभिः वेदविद्भिर्विद्वद्भिः यो नरां नायकानां विदुषां सुशेवः सुष्ठुसुखो वैश्वानरः विश्वे सर्वे नरा यस्मिन् स एव अग्निः परमेश्वरो अस्तावि स्तूयते, ये यूयम् अस्मे अस्मभ्यं सुवीरं शोभना वीरा यस्मात् तम् [रयिं] राज्यश्रियम् धत्त धरत तदाश्रिताः सोमगोपाः ऐश्वर्य्यपालका वयम् अद्वेषे द्वेष्टुमनर्हे प्रीतिविषये द्यावापृथिवी राजनीतिभूराज्ये हुवेम स्वीकुर्याम ।। १२ । २९ ।।
[हे देवाः! यैर्युष्माभिर्ऋषिभिः.......अग्निरस्तावि.......वयमद्वेषे द्यावापृथिवी हुवेम]
Meaning of Essence
ऋषिभिः=सच्चिदानन्दस्वरूपेश्वरसेवकैः धार्मिकैर्विद्वद्भिः, परोपकारकत्वादाप्तैः। अद्वेषे=सुस्थिरे। द्यावापृथिवी=विद्याराज्ये ॥
Special
वत्सप्रीः। अग्निः=परमेश्वरः॥ विराडार्षी त्रिष्टुप् । धैवतः।।