Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 28

117 Mantra
12/28
Devata- अग्निर्देवता Rishi- वत्सप्रीर्ऋषिः Chhand- विराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
त्वाम॑ग्ने॒ यज॑माना॒ऽअनु॒ द्यून् विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि। त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ विव॑व्रुः॥२८॥

त्वाम्। अ॒ग्ने॒। यज॑मानाः। अनु॑। द्यून्। विश्वा॑। वसु॑। द॒धि॒रे॒। वार्या॑णि। त्वया॑। स॒ह। द्रवि॑णम्। इ॒च्छमा॑नाः। व्र॒जम्। गोम॑न्त॒मिति॒ गोऽम॑न्तम्। उ॒शिजः॑। वि। व॒व्रुः॒ ॥२८ ॥

Mantra without Swara
त्वामग्ने यजमानाऽअनु द्यून्विश्वा वसु दधिरे वार्याणि । त्वया सह द्रविणमिच्छमाना व्रजङ्गोमन्तमुशिजो विवव्रुः ॥

त्वाम्। अग्ने। यजमानाः। अनु। द्यून्। विश्वा। वसु। दधिरे। वार्याणि। त्वया। सह। द्रविणम्। इच्छमानाः। व्रजम्। गोमन्तमिति गोऽमन्तम्। उशिजः। वि। वव्रुः॥२८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(त्वाम्) (अग्ने) विद्वन् (यजमाना:) संगन्तारः (अनु) (द्यून्) दिनानि (विश्वा) सर्वाणि (वसु) वसूनि=द्रव्याणि (दधिरे) धरेयुः (वार्याणि) स्वीकर्तुमर्हाणि (त्वया) (सह) साकम् (द्रविणम्) धनम् (इच्छमानाः) व्यत्ययेनाऽऽत्मनेपदम् (व्रजम्) मेघम् (गोमन्तम्) प्रशस्ता गावः=किरणा यस्मिंस्तम् (उशिजः) मेधाविनः। उशिगिति मेधाविना०॥ निघं० ३ । १५ ॥ (वि) (वव्रुः) वृणुयुः॥ २८॥
Essence
मनुष्यैः प्रयतमानानां विदुषां संगात् पुरुषार्थेन प्रतिदिनं विद्यासुखे वर्द्धनीये॥
Subject
पुनर्मनुष्यैर्विद्याः कथं वर्द्धनीया इत्याह ॥
Meaning of Anvay
हे अग्ने विद्वन्! यन्त्वामाश्रित्योशिजो यजमानास्त्वया सह याननुद्यून् विश्वा वार्याणि वसु दधिरे द्रविणमिच्छमाना गोमन्तं व्रजं विवव्रुस्तथाभूता वयमपि भवेम।। २८।।
सपदार्थान्वयः -- हे अग्ने=विद्वन् ! यन्त्वामाश्रित्य उशिजः मेधाविनः यजमाना: संगन्तारः त्वया सह साकं यान् अनु+द्यून् दिनानि विश्वा सर्वाणि वार्य्याणि स्वीकर्तुमर्हाणि वसु वसूनि=द्रव्याणि दधिरे धरेयुः, द्रविणं धनम् इच्छमानाः गोमन्तं प्रशस्ता गावः=किरणा यस्मिँस्तम् व्रजं मेघं वि+वव्रुः वृणुयुः, तथाभूता वयमपि भवेम।। १२। २८।।
[हे अग्ने!= विद्वान्! यं त्वामाश्रित्य.....यजमाना......अनुद्यून् वार्याणि वसु दधिरे]
Special
वत्सप्रीः । अग्निः=विद्वान् ॥ विराडार्षी त्रिष्टुप् । धैवतः ।।