Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 27

117 Mantra
12/27
Devata- अग्निर्देवता Rishi- वत्सप्रीर्ऋषिः Chhand- विराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आ तं भ॑ज सौश्रव॒सेष्व॑ग्नऽउ॒क्थऽउ॑क्थ॒ऽआभ॑ज श॒स्यमा॑ने। प्रि॒यः सूर्ये॑ प्रि॒योऽअ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः॥२७॥

आ। तम्। भ॒ज॒। सौ॒श्र॒व॒सेषु॑। अ॒ग्ने॒। उ॒क्थउ॑क्थ॒ इत्यु॒क्थेऽउ॑क्थे। आ। भ॒ज॒। श॒स्यमा॑ने। प्रि॒यः। सूर्ये॑। प्रि॒यः। अ॒ग्ना। भ॒वा॒ति॒। उत्। जा॒तेन॑। भि॒नद॑त्। उत्। जनि॑त्वै॒रिति॒ जनि॑ऽत्वैः ॥२७ ॥

Mantra without Swara
आ तम्भज सौश्रवसेष्वग्नऽउक्थौक्थऽआभज शस्यमाने । प्रियः सूर्ये प्रियोऽअग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥

आ। तम्। भज। सौश्रवसेषु। अग्ने। उक्थउक्थ इत्युक्थेऽउक्थे। आ। भज। शस्यमाने। प्रियः। सूर्ये। प्रियः। अग्ना। भवाति। उत्। जातेन। भिनदत्। उत्। जनित्वैरिति जनिऽत्वैः॥२७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आ) (तम्) (भज) सेवस्व (सौश्रवसेषु) (अग्ने) विद्वन् (उक्थऽउक्थे) वक्तुं योग्ये योग्ये व्यवहारे (आ) (भज) (शस्यमाने) स्तूयमाने (प्रियः) कान्तः (सूर्य्ये) सूरिषु=स्तोतृषु भवे (प्रियः) सेवनीयः (अग्नाः) अग्नौ (भवाति) भवेत् (उत्) (जातेन) (भिनदत्) भिन्द्यात् (उत्) (जनित्वैः) जनिष्यमाणैः।। २७।।
Essence
मनुष्यैः पाककरणे साधुः, सर्वस्य प्रियः, अन्नव्यञ्जनानां भेदक:, पाचको भवेत् स स्वीकर्त्तव्यः ।। ।। १२ । २७ ।।
Subject
पुनस्तमेव विषयमाह॥
Meaning of Anvay
हे अग्ने विद्वन्! त्वं यः सौश्रवसेषु वर्त्तमानस्तमाभज यः शस्यमान उक्थऽउक्थे प्रियः सूर्येऽग्ना च प्रियो जातेन जनित्वैः सहोद्भवात्युद्भिनदत्तं त्वमाभज।। २७।।
सपदार्थान्वयः -- हे अग्ने=विद्वन् ! त्वं यः सौश्रवसेषु वर्त्तमानस्तम् आ+भज सेवस्व, यः शस्यमाने स्तूयमाने उक्थऽउक्थे वक्तुं योग्ये योग्ये व्यवहारे प्रियः सेवनीयः सूर्य्ये सूरिषु=स्तोतृषु भवे अग्ना अग्नौ च प्रियः कान्तः जातेन जनित्वैः जनिष्यमाणैः सह उत्+भवाति भवेत्, उत्+भिनदत् भिन्द्यात् तं त्वम् आ+भज सेवस्व।।
[हे अग्ने!=विद्वन्! त्वं यः सौश्रवेषु वर्तमानः.....प्रियः......उद्भिनदत् तं त्वमाभज]
Meaning of Essence
प्रियः=सर्वस्य प्रियः ।
Special
वत्सप्रीः। अग्निः=विद्वान्। विराडार्षी त्रिष्टुप्। धैवतः॥