Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 26

117 Mantra
12/26
Devata- अग्निर्देवता Rishi- वत्सप्रीर्ऋषिः Chhand- विराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
यस्ते॑ऽअ॒द्य कृ॒णव॑द् भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने। प्र तं न॑य प्रत॒रं वस्यो॒ऽअच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ॥२६॥

यः। ते॒। अ॒द्य। कृ॒णव॑त्। भ॒द्र॒शो॒च॒ इति॑ भद्रऽशोचे। अ॒पू॒पम्। दे॒व॒। घृ॒तव॑न्त॒मिति॑ घृ॒तऽव॑न्तम्। अ॒ग्ने॒। प्र। तम्। न॒य॒। प्र॒त॒रमिति॑ प्रऽत॒रम्। वस्यः॑। अच्छ॑। अ॒भि। सु॒म्नम्। दे॒वभ॑क्त॒मिति॑ दे॒वऽभ॑क्तम्। य॒वि॒ष्ठ॒ ॥२६ ॥

Mantra without Swara
यस्तेऽअद्य कृणवद्भद्रशोचे पूपन्देव घृतवन्तमग्ने । प्र तन्नय प्रतरँवस्योऽअच्छाभि सुम्नन्देवभक्तँयविष्ठ ॥

यः। ते। अद्य। कृणवत्। भद्रशोच इति भद्रऽशोचे। अपूपम्। देव। घृतवन्तमिति घृतऽवन्तम्। अग्ने। प्र। तम्। नय। प्रतरमिति प्रऽतरम्। वस्यः। अच्छ। अभि। सुम्नम्। देवभक्तमिति देवऽभक्तम्। यविष्ठ॥२६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यः) (ते) तव (अद्य) (कृणवत्) कुर्यात् (भद्रशोचे) भद्रा=भजनीया शोचिर्दीप्तिर्यस्य तत्सम्बुद्धौ (अपूपम्) (देव) दिव्यभोगप्रद (घृतवन्तम्) बहु घृतं विद्यते यस्मिन् तम् (अग्ने) विद्वन् (प्र) (तम्) (नय) प्राप्नुहि (प्रतरम्) पाकस्य संतारकम् (वस्यः) अतिशयितं वसु तत् (अच्छ) (अभि) (सुम्नम्) सुखस्वरूपम् (देवभक्तम्) देवैर्विद्वद्भिः सेवितम् (यविष्ठ) अतिशयेन युवन्।। २६।।
Essence
मनुष्यैर्विद्वत्सुशिक्षितोऽत्युत्तमानां व्यञ्जनानां सुस्वादिष्ठानामन्नानां रुचिकराणां निर्माता पाककर्त्ता संग्राह्यः।। १२। २६।।
Subject
पुनर्विद्वद्भिः कीदृशः पाचकः स्वीकार्य इत्याह ॥
Meaning of Anvay
हे भद्रशोचे यविष्ठ देवाग्ने! यस्ते तव घृतवन्तमभिसुम्नं वस्यो देवभक्तमपूपमच्छ कृणवत्तं प्रतरं पाककर्त्तारं त्वमद्य प्रणय ।। २६।।
सपदार्थान्वयः - हे भद्रशोचे भद्रा=भजनीया शोचिर्दीप्तिर्यस्य तत्सम्बुद्धौ! यविष्ठ अतिशयेन युवन् ! देव दिव्यभोगप्रद! अग्ने विद्वन्! यः ते=तव घृतवन्तं बहु घृतं विद्यते यस्मिन् तम्, अभि+सुम्नं सुखस्वरूपं वस्यः अतिशयितं वसु तत्, देवभक्तं देवैर्द्विद्वद्भिः सेवितम् अपूपम् अच्छ कृणवत् कुर्य्यात् तं प्रतरं=पाककर्त्तारं पाकस्य सन्तारकं त्वम् अद्य प्र+णय प्राप्नुहि॥
[यः.....देवभक्तमपूपमच्छ कृणवत्, तं प्रतरं=पाककर्त्तारं त्वमद्य प्रणय]
Special
वत्सप्रीः । अग्निः=विद्वान् । विराडार्षी त्रिष्टुप् । धैवतः।।