Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 24

117 Mantra
12/24
Devata- अग्निर्देवता Rishi- वत्सप्रीर्ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
उ॒शिक् पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्त्ये॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि। इय॑र्त्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन्॥२४॥

उ॒शिक्। पा॒व॒कः। अ॒र॒तिः। सु॒मे॒धाः इति॑ सुऽमे॒धाः। मर्त्ये॑षु। अ॒ग्निः। अ॒मृतः॑। नि। धा॒यि॒। इय॑र्त्ति। धू॒मम्। अ॒रु॒षम्। भरि॑भ्रत्। उत्। शु॒क्रेण॑। शो॒चिषा॑। द्याम्। इन॑क्षन् ॥२४ ॥

Mantra without Swara
उशिक्पावकोऽअरतिः सुमेधा मर्त्येष्वग्निरमृतो निधायि । इयर्ति धूममरुषम्भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन् ॥

उशिक्। पावकः। अरतिः। सुमेधाः इति सुऽमेधाः। मर्त्येषु। अग्निः। अमृतः। नि। धायि। इयर्त्ति। धूमम्। अरुषम्। भरिभ्रत्। उत्। शुक्रेण। शोचिषा। द्याम्। इनक्षन्॥२४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उशिक्) कामयमानः (पावकः) पवित्रकर्त्ता (अरतिः) ज्ञाता (सुमेधाः) शोभनप्रज्ञः (मर्त्येषु) (अग्निः) कारणाख्यः (अमृतः) अविनाशी (नि) (धायि) निधीयते (इयर्त्ति) प्राप्नोति (धूमम्) (अरुषम्) रूपम् (भरिभ्रत्) अत्यन्तं धरन् पुष्यन् (उत्) (शुक्रेण) आशुकरेण (शोचिषा) दीप्त्या (द्याम्) सूर्यम् (इनक्षन्) व्याप्नुवन्। इनक्षतीति व्याप्तिकर्म० ॥ निघं० २ । १८। २४।।
Essence
मनुष्यैरीश्वरसृष्टानां पदार्थानां कारणकार्यपुरस्सरं विज्ञानं कृत्वा प्रज्ञोन्नेया॥
Subject
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
Meaning of Anvay
हे मनुष्याः! यूयमीश्वरेण मर्त्येषु य उशिक् पावकोऽरतिः सुमेधाऽमृतोऽग्निर्निधायि यः शुक्रेण शोचिषा द्यामिनक्षन् धूममरुषं भरिभ्रदुदियर्तिवक तमीश्वरमुपाध्वमुपकुरुत वा।। २४।।
सपदार्थान्वयः- हे मनुष्याः ! यूयमीश्वरेण मर्त्येषु य उशिक् कामयमानः पावकः पवित्रकर्त्ता (अरतिः) ज्ञाता सुमेधाः शोभनप्रज्ञः अमृतः अविनाशी अग्निः कारणाऽऽख्यः नि+धायि निधीयते, यः शुक्रेण आशुकरेण शौचिषा दीप्त्या द्यां सूर्य्यम् इनक्षन् व्याप्नुवन् धूमन् अरुषं रूपं भरिभ्रत् अत्यन्तं धरन् पुष्यन् उत्+इयर्त्ति प्राप्नोति तमीश्वरमुपाध्वमुपकुरुत वा ।। १२ । २४ ।
[हे मनुष्याः !... ईश्वरेण मर्त्येषु......अरतिः सुमेधा.......अग्निर्निधायि]
Special
वत्सप्रीः । अग्निः=कारणाख्यः । निचृदार्षी त्रिष्टुप् । धैवतः ॥