Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 21

117 Mantra
12/21
Devata- अग्निर्देवता Rishi- वत्सप्रीर्ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद् वी॒रुधः॑ सम॒ञ्जन्। स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धोऽअख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः॥२१॥

अक्र॑न्दत्। अ॒ग्निः। स्त॒नय॑न्नि॒वेति॑ स्त॒नय॑न्ऽइव। द्यौः। क्षामा॑। रेरि॑हत्। वी॒रुधः॑। स॒म॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। स॒द्यः। ज॒ज्ञा॒नः। वि। हि। ई॒म्। इ॒द्धः। अख्य॑त्। आ। रोद॑सी॒ इति॒ रोद॑सी। भा॒नुना॑। भा॒ति॒। अ॒न्तरित्य॒न्तः ॥२१ ॥

Mantra without Swara
अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीमिद्धोऽअख्यदा रोदसी भानुना भात्यन्तः ॥

अक्रन्दत्। अग्निः। स्तनयन्निवेति स्तनयन्ऽइव। द्यौः। क्षामा। रेरिहत्। वीरुधः। समञ्जन्निति सम्ऽअञ्जन्। सद्यः। जज्ञानः। वि। हि। ईम्। इद्धः। अख्यत्। आ। रोदसी इति रोदसी। भानुना। भाति। अन्तरित्यन्तः॥२१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अक्रन्दत्) गमयति (अग्निः) विद्युत् (स्तनयन्निव) यथा शब्दयन् (द्यौः) सूर्य: (क्षामा) पृथिवीम्। अत्रान्येषामपीत्युपधादीर्घः सुपामिति विभक्तिलोपः (रेरिहत्) ताडयति (वीरुधः) ओषधीः। वीरुध ओषधयो भवन्ति विरोहणात् ॥ निरु० ६ । ३॥ (समञ्जन्) प्रकटयन् (सद्यः) शीघ्रम् (जज्ञानः) जायमानः (वि) (हि) प्रसिद्धौ (ईम्) सर्वतः (इद्धः) प्रदीप्यमानः (अख्यत्) ख्याति (आ) (रोदसी) प्रकाशभूमी (भानुना) किरणसमूहेन (भाति) राजति (अन्तः) मध्ये ।। २१।।
Essence
ईश्वरेण यदर्थः सूर्य उत्पादितः स विद्युदिव सर्वान् लोकानाकृष्य, संप्रकाश्य, ओषध्यादिवृद्धिहेतुः सन् सर्वभूगोलानां मध्ये यथा विराजते तथा राजादिभिर्भवितव्यम्।। १२। २१।।
Subject
अथ मनुष्याः कीदृशा भवेयुरित्युपदिश्यते ॥
Meaning of Anvay
हे मनुष्याः ! यूयं यथा द्यौः सूर्योऽग्निस्तनयन्निव वीरुधः समञ्जन् सन् सद्यो ह्यक्रन्दत्। क्षामा रेरिहदयं जज्ञान इद्धः सन् भानुना रोदसी ईं व्यख्यत्। ब्रह्माण्डस्यान्तरा भातीति तथा भव।। २१ ।।
सपदार्थान्वयः -- हे मनुष्याः ! यूयं यथा द्यौः=सूर्यः अग्निः विद्युत् स्तनयन्निव यथा शब्दयन् वीरुधः ओषधीः समञ्जन् प्रकटयन् सन् सद्यः शीघ्रं हि प्रसिद्धम् अक्रन्दत् गमयति, क्षामा पृथिवीं रेरिहत् ताडयति, अयं जज्ञानः जायमानः इद्धः प्रदीप्यमानः सन् भानुना किरणसमूहेन रोदसी प्रकाशभूमी ईं सर्वतः वि+अख्यत् ख्याति, ब्रह्माण्डस्यान्तः मध्ये आ+भाति राजति, इति तथा भवत।। १२। २१ ।।
[हे मनुष्याः! यूयं यथा द्यौः=सूर्यः, अग्निः स्तनयन्, वीरुधः समञ्जन्.......ब्रह्माण्डस्याऽन्तराभाति,...... तथा भवत]
Special
वत्सप्रीः । अग्निः=विद्युत् । निचृदार्षी त्रिष्टुप् । धैवतः।।