Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 20

117 Mantra
12/20
Devata- अग्निर्देवता Rishi- वत्सप्रीर्ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स॒मु॒द्रे त्वा॑ नृ॒मणा॑ऽअ॒प्स्वन्तर्नृ॒चक्षा॑ऽईधे दि॒वो अ॑ग्न॒ऽऊध॑न्। तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वास॑म॒पामु॒पस्थे॑ महि॒षाऽअ॑वर्धन्॥२०॥

स॒मु॒द्रे। त्वा॒। नृ॒मणाः॑। नृ॒मना॒ इति॑ नृ॒ऽमनाः॑। अ॒प्स्वित्य॒प्ऽसु। अ॒न्तः। नृ॒चक्षा॒ इति॑ नृ॒चऽक्षाः॑। ई॒धे॒। दि॒वः। अ॒ग्ने॒। ऊध॑न्। तृ॒तीये॑। त्वा॒। रज॑सि। त॒स्थि॒वास॒मिति॑ तस्थि॒ऽवास॑म्। अ॒पाम्। उ॒पस्थ॒ इत्यु॒पऽस्थे॑। म॒हि॒षाः। अ॒व॒र्ध॒न् ॥२० ॥

Mantra without Swara
समुद्रे त्वा नृमणाऽअप्स्वन्तर्नृचक्षाऽईधे दिवोऽअग्नऽऊधन् । तृतीये त्वा रजसि तस्थिवाँसमपामुपस्थे महिषा अवर्धन् ॥

समुद्रे। त्वा। नृमणाः। नृमना इति नृऽमनाः। अप्स्वित्यप्ऽसु। अन्तः। नृचक्षा इति नृचऽक्षाः। ईधे। दिवः। अग्ने। ऊधन्। तृतीये। त्वा। रजसि। तस्थिवासमिति तस्थिऽवासम्। अपाम्। उपस्थ इत्युपऽस्थे। महिषाः। अवर्धन्॥२०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(समुद्रे) अन्तरिक्षे (त्वा) त्वाम् (नृमणाः) नायकेषु मनो यस्य सः (अप्सु) अन्नेषु जलेषु वा (अन्तः) मध्ये (नृचक्षाः) नृषु=मनुष्येषु चक्षो=दर्शनं यस्य सः (ईधे) प्रदीपये (दिवः) सूर्यप्रकाशस्य (अग्ने) विद्वन् (ऊधन्) ऊधनि=उषसि। ऊध इत्युषसो नामसु०॥ निघं० १। ८।। (तृतीये) त्रयाणां पूरके (त्वा) त्वाम् (रजसि) लोके (तस्थिवांसम्) तिष्ठन्तम् (अपाम्) जलानाम् (उपस्थे) समीपे (महिषाः) महान्तो विद्वांसः। महिष इति महन्नामसु०॥ निघं० ३। ३॥ (अवर्धन्) वर्धेरन् ।। २०।।
Essence
प्रजासु वर्तमानाः सर्वे प्रधानपुरुषा राजवर्गं नित्यं वर्द्धयेयुः, राजपुरुषाः प्रजापुरुषाँश्च।। १२। २०।।
Subject
पुना राजप्रजासम्बन्धमाह॥
Meaning of Anvay
हे अग्ने ! नृमणा अहं यं त्वा समुद्रेऽग्निमिवेधे नृचक्षा अहमप्स्वन्तरीधे दिव ऊधन्नीधे तृतीये रजसि तस्थिवांसं सूर्यमिव यं त्वामपामुपस्थे महिषा अवर्धन् स त्वमस्मान् सततं वर्धय।। २०।।
सपदार्थान्वयः-- हे अग्ने विद्वन्! नृमणाः नायकेषु मनो यस्य सः, अहं यं त्वा त्वां समुद्रे अन्तरिक्षे अग्निमिव ईधे प्रदीपये, नृचक्षाः नृषु=मनुष्येषु चक्षो=दर्शनं यस्य सः, अहम् अप्सु अन्नेषु जलेषु वा अन्तः मध्ये ईधे प्रदीप्तये, दिवः सूर्यप्रकाशस्य ऊधन् ऊधनि=उषसि ईधे प्रदीप्तये, तृतीये त्रयाणां पूरके रजसि लोके तस्थिवांसं तिष्ठन्तं सूर्य्यमिव यं [त्वा]=त्वाम् अपां जलानाम् उपस्थे समीपे महिषाः महान्तो विद्वांसः=अवर्धन् वर्धेरन्; स त्वमस्मान् सततं वर्धय।। १२। २०।।
[हे अग्ने !......यं त्वा.......महिषा अवर्धन्, स त्वमस्मात् सततं वर्धय]
Meaning of Essence
महिषाः=प्रधानपुरुषाः ॥
Special
वत्सप्रीः । अग्निः=राजा। निचृदार्षी त्रिष्टुप्। धैवतः॥