Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 19

117 Mantra
12/19
Devata- अग्निर्देवता Rishi- वत्सप्रीर्ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वि॒द्मा ते॑ऽअग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा। वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ऽआज॒गन्थ॑॥१९॥

वि॒द्म। ते॒। अ॒ग्ने॒। त्रे॒धा। त्र॒याणि॑। वि॒द्म। ते॒। धाम॑। विभृ॒तेति॒ विभृ॑ऽता। पु॒रु॒त्रेति॑ पुरु॒ऽत्रा। वि॒द्म। ते॒। नाम॑। प॒र॒मम्। गुहा॑। यत्। वि॒द्म। तम्। उत्स॑म्। यतः॑। आ॒ज॒गन्थेत्या॑ऽज॒गन्थ॑ ॥१९ ॥

Mantra without Swara
विद्मा तेऽअग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा । विद्मा ते नाम परमङ्गुहा यद्विद्मा तमुत्सँयतऽआजगन्थ ॥

विद्म। ते। अग्ने। त्रेधा। त्रयाणि। विद्म। ते। धाम। विभृतेति विभृऽता। पुरुत्रेति पुरुऽत्रा। विद्म। ते। नाम। परमम्। गुहा। यत्। विद्म। तम्। उत्सम्। यतः। आजगन्थेत्याऽजगन्थ॥१९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(विद्म) जानीयाम। अत्र चतसृषु क्रियासु संहितायां द्व्यचोऽतस्तिङ इति दीर्घः। (ते) तव (अग्ने) विद्वन्! (त्रेधा) त्रिभिः प्रकारैः (त्रयाणि) त्रीणि (विद्म) (ते) तव (धाम) धामानि (विभृता) विशेषेण धर्तुं योग्यानि (पुरुत्रा) पुरूणि=बहूनि (विद्म) (ते) (नाम) (परमम्) (गुहा) गुहायां स्थितं गुप्तम् (यत्) (विद्म) (तम्) (उत्सम्) कूप इवार्द्रीकरम्। उत्स इति कूपना०॥ निघं० ३। २३॥ (यतः) यस्मात् (आजगन्थ) आगच्छेः ।। १९।।
Essence
प्रजास्थैर्जनैराज्ञा च राजनीतिकर्माणि, स्थानानि, सर्वेषां नामानि च विज्ञेयानि।
[त्वामुत्समिव विद्म]
यथा कृषीवलाः कूपाज्जलमुत्कृष्य क्षेत्रादीनि तर्पयन्ति तथैव प्रजास्थैर्धनादिभी राजा तर्पणीयो, राज्ञा प्रजाश्च तर्पणीयाः।। १२। १९।।
Subject
पुनस्तमेव विषयमाह॥
Meaning of Anvay
हे अग्ने ! ते तव यानि त्रेधा त्रयाणि कर्माणि सन्ति तानि वयं विद्म। हे स्थानेश! ते यानि विभृता पुरुत्रा धाम सन्ति तानि वयं विद्म। हे विद्वन्! ते तव यद् गुहा परमं नामास्ति तद्वयं विद्म। यतस्त्वमाजगन्थ तं त्वामुत्समिव विद्म विजानीमः।। १९।।
सपदार्थान्वयः -- हे अग्ने विद्वन्! ते=तव यानि त्रेधा त्रिभिः प्रकारैः त्रयाणि त्रीणि कर्माणि सन्ति, तानि वयं विद्म जानीयाम।
हे स्थानेश! ते तव यानि विभृता विशेषेण धर्त्तुं योग्यानि पुरुत्रा पुरूणि=बहूनि धाम धामानि सन्ति, तानि वयं विद्म जानीयाम।
हे विद्वन्! ते=तव यद् गुहा गुहायां स्थितं गुप्तं परमं नाम अस्ति, तद्वयं विद्म जानीयाम।
यतः यस्मात् त्वम् आ+जगन्थ आगच्छे:, तं त्वाम् उत्सम् कूप इवाऽऽर्द्रीकरम् इव विद्म=विजानीमः।। १२। १९।।
[हे अग्ने! ते तव.....त्रयाणि कर्माणि, धाम, नाम अस्ति तद् वयं विद्म]
Meaning of Essence
धाम=स्थानानि। नाम=सर्वेषां नामानि उत्सम्=कूपम्।।
Special
वत्सप्रीः। अग्निः=राजा। निचृदार्षी त्रिष्टुप्। धैवतः॥