Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 17

117 Mantra
12/17
Devata- अग्निर्देवता Rishi- त्रित ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
शि॒वो भू॒त्वा मह्य॑मग्ने॒ऽअथो॑ सीद शि॒वस्त्वम्। शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वं योनि॑मि॒हास॑दः॥१७॥

शि॒वः। भू॒त्वा। मह्य॑म्। अ॒ग्ने॒। अथो॒ऽइत्यथो॑। सी॒द॒। शि॒वः। त्वम्। शि॒वाः। कृ॒त्वा। दिशः॑। सर्वाः॑। स्वम्। योनि॑म्। इ॒ह। आ। अ॒स॒दः॒ ॥१७ ॥

Mantra without Swara
शिवो भूत्वा मह्यमग्नेऽअथो सीद शिवस्त्वम् । शिवः कृत्वा दिशः सर्वाः स्वं योनिमिहासदः ॥

शिवः। भू्त्वा। मह्यम्। अग्ने। अथोऽइत्यथो। सीद। शिवः। त्वम्। शिवाः। कृत्वा। दिशः। सर्वाः। स्वम्। योनिम्। इह। आ। असदः॥१७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(शिवः) स्वयं मङ्गलाचारी (भूत्वा) (मह्यम्) प्रजाजनाय (अग्ने) शत्रुविदारक (अथो) (सीद) (शिवः) मङ्गलकारी (त्वम्) (शिवाः) मङ्गलचारिणी: (कृत्वा) (दिशः) या दिश्यन्त=उपदिश्यन्ते दिग्भिः सहचरितास्ताः प्रजाः (सर्वा:) (स्वम्) (योनिम्) राजधर्मासनम् (इह) अस्मिन् जगति (आ) (असदः) आस्व।।१७।।
Essence
राजा स्वयं धार्मिको भूत्वा, प्रजाजनानपि धार्मिकान् संपाद्य, न्यायासनमधिष्ठाय, सततं न्यायं कुर्यात्॥ १२। १७।।
Subject
पुनस्तमेव विषयमाह॥
Meaning of Anvay
हे अग्ने ! त्वं मह्यं शिवो भूत्वेह शिवः सन् सर्वा दिशः शिवाः कृत्वा स्वं योनिमासदोऽथो राजधर्मे सीद।।१७।।
सपदार्थान्वयः -- हे अग्ने शत्रुविदारक! त्वं मह्यं प्रजाजनाय शिवः स्वयं मङ्गलाचारी भूत्वा इह अस्मिन् जगति शिवः मङ्गलकारी सन् सर्वाः दिशः या दिश्यन्ते=उपदिश्यन्ते दिग्भिः सहचरितास्ताः प्रजाः, शिवाः मङ्गलचारिणीः कृत्वा स्वं योनिं राजधर्माऽऽसनम् आ+असदः आस्व, अथो राजधर्मे सीद ।। १२। १७।।
[हे अग्ने! त्वं मह्यं शिवो भूत्वा, इह शिवः सन्.....स्वं योनिमा सदः]
Meaning of Essence
अग्ने=राजन्। शिवः=धार्मिकः। योनिम्=न्यायासनम्। आसदः=सततं न्यायं कुरु।।
Special
त्रितः। अग्निः=राजा। विराडनुष्टुप्। गान्धारः॥