Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 15

117 Mantra
12/15
Devata- अग्निर्देवता Rishi- त्रित ऋषिः Chhand- विराट त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सीद॒ त्वं मा॒तुर॒स्याऽउ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान्। मैनां॒ तप॑सा॒ मार्चिषा॒ऽभिशों॑चीर॒न्तर॑स्या शु॒क्रज्यो॑ति॒र्विभा॑हि॥१५॥

सीद॑। त्वम्। मा॒तुः। अ॒स्याः। उ॒पस्थे॒ इत्यु॒पऽस्थे॑। विश्वा॑नि। अ॒ग्ने॒। व॒युना॑नि। वि॒द्वान्। मा। ए॒ना॒म्। तप॑सा। मा। अ॒र्चिषा॑। अ॒भि। शो॒चीः॒। अ॒न्तः। अ॒स्या॒म्। शु॒क्रज्यो॑ति॒रिति॑ शु॒क्रऽज्यो॑तिः। वि। भा॒हि॒ ॥१५ ॥

Mantra without Swara
सीद त्वम्मातुरस्या उपस्थे विश्वान्यग्ने वयुनानि विद्वान् । मैनान्तपसा मार्चिषाभिशोचीरन्तरस्याँ शुक्रज्योतिर्वि भाहि ॥

सीद। त्वम्। मातुः। अस्याः। उपस्थे इत्युपऽस्थे। विश्वानि। अग्ने। वयुनानि। विद्वान्। मा। एनाम्। तपसा। मा। अर्चिषा। अभि। शोचीः। अन्तः। अस्याम्। शुक्रज्योतिरिति शुक्रऽज्योतिः। वि। भाहि॥१५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सीद) तिष्ठ (त्वम्) (मातुः) जनन्या: (अस्याः) प्रत्यक्षाया भूमेरिव (उपस्थे) समीपे (विश्वानि) सर्वाणि (अग्ने) विद्यामभीप्सो (वयुनानि) प्रज्ञानानि (विद्वान्) यो वेत्ति सः (मा) (एनाम्) (तपसा) सन्तापेन (मा) (अर्चिषा) तेजसा (अभि) (शोची:) शोकयुक्तां कुर्या: (अन्तः) आभ्यन्तरे (अस्याम्) मातरि (शुक्रज्योतिः) शुक्रं शुद्धाचरणं ज्योतिः=प्रकाशो यस्य सः (वि) (भाहि) प्रकाशय ।। १५।।
Essence
यो विदुष्या मात्रा विद्यासुशिक्षां प्रापितः, मातृसेवक: जननीवत् प्रजाः पालयेत् स स राज्यैश्वर्येण प्रकाशेत।। १२। १५।।
Subject
पुनर्मातृकृत्यमाह ॥
Meaning of Anvay
हे अग्ने ! त्वमस्यां मातरि सत्यां विभाहि प्रकाशितो भवास्या भूमेरिव शुक्रज्योतिर्विद्वान् मातुरुपस्थे सीद। अस्याः सकाशाद्विश्वानि वयुनानि प्राप्नुहि। एनामन्तर्मा तपसार्चिषा माभिशोचीः किन्त्वेतच्छिक्षां प्राप्य विभाहि।। १५।।
सपदार्थान्वयः -- हे अग्ने विद्यामभीप्सो! त्वम् अस्यां=मातरि सत्यां वि+भाहि=प्रकाशितो भव प्रकाशय। अस्याः=भूमेरिव प्रत्यक्षाया भूमेरिव शुक्रज्योतिः शुक्रं=शुद्धाचरणं ज्योतिः=प्रकाशो यस्य सः, विद्वान् यो वेत्ति सः, मातु: जनन्याः उपस्थे समीपे सीद तिष्ठ। अस्याः सकाशात् विश्वानि सर्वाणि वयुनानि प्रज्ञानानि प्राप्नुहि। एनाम् अन्तः आभ्यन्तरे मा तपसा सन्तापेन अर्चिषा तेजसा मा अभि+ शोचीः शोकयुक्तां कुर्य्याः, किन्त्वेतच्छिक्षां प्राप्य वि+भाहि प्रकाशय ।। १२। १५।।
[हे अग्ने! त्वं.....मातुरुपस्थे सीद, अस्याः सकाशाद् विश्वानि वयुनानि प्राप्नुहि, एनामन्तर्मा तपसा.....माऽभिशोचीः किन्तु.....विभाहि]
Meaning of Essence
वयुनानि=विद्यां सुशिक्षां च। विभाहि=राज्यैश्वर्येण प्रकाशितो भव।।
Special
त्रितः। अग्निः=राजा। विराट् त्रिष्टुप्। धैवतः।।