Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 14

117 Mantra
12/14
Devata- जीवेश्वरौ देवते Rishi- त्रित ऋषिः Chhand- भुरिग् जगती Swara- निषादः
Mantra with Swara
ह॒ꣳसः शु॑चि॒षद् वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒ष॑द् व॑र॒सदृ॑त॒सद् व्यो॑म॒सद॒ब्जा गो॒जाऽऋ॑त॒जाऽअ॑द्रि॒जाऽऋ॒तं बृ॒हत्॥१४॥

ह॒ꣳसः। शु॒चि॒षत्। शु॒चि॒सदिति॑ शुचि॒ऽसत्। वसुः॑। अ॒न्त॒रि॒क्ष॒सदित्य॑न्तरिक्ष॒ऽसत्। होता॑। वे॒दि॒षत्। वे॒दि॒सदिति॑ वेदि॒ऽसत्। अति॑थिः। दु॒रो॒ण॒सदिति॑ दुरोण॒ऽसत्। नृ॒षत्। नृ॒सदिति॑ नृ॒ऽसत्। व॒र॒सदिति॑ वर॒ऽसत्। ऋ॒त॒सदित्यृ॑त॒ऽसत्। व्यो॒म॒सदिति॑ व्योम॒ऽसत्। अ॒ब्जा इत्य॒प्ऽजाः। गो॒जा इति॑ गो॒ऽजाः। ऋ॒त॒जा इत्यृ॑त॒ऽजाः। अ॒द्रि॒जा इत्य॑द्रि॒ऽजाः। ऋ॒तम्। बृ॒हत् ॥१४ ॥

Mantra without Swara
हँसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दूरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजाऽऋतजा अद्रिजा ऋतम्बृहत् ॥

हꣳसः। शुचिषत्। शुचिसदिति शुचिऽसत्। वसुः। अन्तरिक्षसदित्यन्तरिक्षऽसत्। होता। वेदिषत्। वेदिसदिति वेदिऽसत्। अतिथिः। दुरोणसदिति दुरोणऽसत्। नृषत्। नृसदिति नृऽसत्। वरसदिति वरऽसत्। ऋतसदित्यृतऽसत्। व्योमसदिति व्योमऽसत्। अब्जा इत्यप्ऽजाः। गोजा इति गोऽजाः। ऋतजा इत्यृतऽजाः। अद्रिजा इत्यद्रिऽजाः। ऋतम्। बृहत्॥१४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(हंसः) दुष्टकर्महन्ता (शुचिषत्) शुचिषु=पवित्रेषु व्यवहारेषु वर्त्तमानः (वसुः) सज्जनेषु निवस्ता तेषां निवासयिता वा (अन्तरिक्षसत्) यो धर्मावकाशे सीदति (होता) सत्यस्य ग्रहीता ग्राहयिता वा (वेदिषत्) यो वेद्यां=जगत्यां यज्ञशालायां वा सीदति (अतिथिः) अविद्यमाना तिथिर्यस्य स राज्यरक्षणाय यथासमयं भ्रमणकर्त्ता (दुरोणसत्) यो दुरोणे=सर्वर्त्तुसुखप्रापके गृहे सीदति सः (नृषत्) यो नायकेषु सीदति सः (वरसत्) य उत्तमेषु=विद्वत्सु सीदति (ऋतसत्) य ऋते=सत्ये संस्थितः (व्योमसत्) यो व्योमवद्व्यापके=परमेश्वरे सीदति (अब्जाः) योऽपः=प्राणान् जनयति (गोजाः) यो गाव=इन्द्रियाणि पशून् वा जनयति (ऋतजाः) यः ऋतं=सत्यं ज्ञानं जनयति सः (अद्रिजाः) योऽद्रीन्मेघान् जनयति (ऋतम्) सत्यम् (बृहत्) महत्॥ १४॥
Essence
य ईश्वरवत् प्रजाः पालयतु, सुखयितुं शक्नुयात् स एव राजा भवितुं योग्यं स्यात्, न राज्ञा विना प्रजाः सुखिन्यो भवितुमर्हन्ति॥
Subject
अथात्मलक्षणान्याह ॥
Meaning of Anvay
हे प्रजाजनाः! यूयं यो हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसन्नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहद् ब्रह्म जीवश्चास्ति यस्तौ जानीयात् तं सभाधीशं राजानं कृत्वा सततमानन्दत।। १४।।
सपदार्थान्वयः-- हे प्रजाजनाः ! यूयं यो हंसः दुष्टकर्महन्ता शुचिषत् शुचिषु=पवित्रेषु व्यवहारेषु वर्त्तमानः वसुः सज्जनेषु निवस्ता तेषां निवासयिता वा अन्तरिक्षसत् यो धर्माऽवकाशे सीदति, होता सत्यस्य ग्रहीता ग्राहयिता वा वेदिषत् यो वेद्यां=जगत्यां यज्ञशालायां वा सीदति अतिथिः अविद्यमाना तिथिर्यस्य स राज्यरक्षणाय यथासमयं भ्रमणकर्त्ता दुरोणसत् यो दुरोणे=सर्वर्त्तुसुखप्रापके गृहे सीदति सः, नृषत् यो नायकेषु सीदति सः, वरसत् य उत्तमेषु विद्वत्सु सीदति सः, ऋतसत् य ऋते=सत्ये संस्थितः, व्योमसत् यो व्योमवद्वयापके=परमेश्वरे सीदति, अब्जाः योऽपः=प्राणान् जनयति गोजाः यो गावः=इन्द्रियाणि पशून् वा जनयति ऋतजाः य ऋतं=सत्यं ज्ञानं जनयति सः, अद्रिजाः योऽद्रीन्मेघान् जनयति, ऋतं सत्यं बृहत् महद् ब्रह्म जीवश्चास्ति, यस्तौ जानीयात्, तं सभाधीशं राजानं कृत्वा सततमानन्दत।। १२। १४।।
[हे प्रजाजना: ! यूयं यो हंसः........ऋतं बृहत् ब्रह्म जीवश्चास्ति, यस्तौ जानीयात् तं सभाधीशं राजानं कृत्वा सततमानन्दत]