Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 117

117 Mantra
12/117
Devata- अग्निर्देवता Rishi- प्रजापतिर्ऋषिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ॒ग्निः प्रि॒येषु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य। स॒म्राडेको॒ विरा॑जति॥११७॥

अ॒ग्निः। प्रि॒येषु॑। धाम॒स्विति॒ धाम॑ऽसु। कामः॑। भू॒तस्य॑। भव्य॑स्य। स॒म्राडिति॑ स॒म्ऽराट्। एकः॑। वि। रा॒ज॒ति॒ ॥११७ ॥

Mantra without Swara
अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य । सम्राडेको वि राजति ॥

अग्निः। प्रियेषु। धामस्विति धामऽसु। कामः। भूतस्य। भव्यस्य। सम्राडिति सम्ऽराट्। एकः। वि। राजति॥११७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्निः) पावक इव वर्त्तमानः (प्रियेषु) इष्टेषु (धामसु) जन्मस्थाननामसु (कामः) यः काम्यते सः (भूतस्य) अतीतस्य (भव्यस्य) आगामिसमयस्य (सम्राट्) सम्यक् प्रकाशकः (एकः) अद्वितीयः परमेश्वरः (वि) (राजति)।। ११७।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः।। ये मनुष्याः परमात्मनो गुणकर्मस्वभावानुकूलान् स्वगुणकर्मस्वभावान् कुर्वन्ति, त एव साम्राज्यं भोक्तुमर्हन्ति।। १२। ११७।।
Subject
पुनर्मनुष्याः कीदृशा भूत्वा किं कुर्युरित्याह॥
Meaning of Anvay
यो मनुष्यः सम्राडेकः कामोऽग्निः सभेशः परमेश्वर इव भूतस्य भव्यस्य प्रियेषु धामसु विराजति स एव राज्याभिषेधनीयः।। ११७ ।।

सपदार्थान्वयः-- यो मनुष्यः सम्राट् सम्यक् प्रकाशकः एकः अद्वितीयः परमेश्वरः कामः यः काम्यते सः अग्निः=सभेशः परमेश्वर इव पावक इव वर्त्तमानः भूतस्य अतीतस्य भव्यस्य आगामिसमयस्य प्रियेषु इष्टेषु धामसु जन्मस्थाननामसु विराजति, स एव राज्याऽभिषेचनीयः ॥

[यो मनुष्यः.....अग्निः सभेशः=परमेश्वर इव.......विराजति स एव राज्याभिषेचनीयः]
Meaning of Essence
अग्निः= परमात्मा॥
Special
प्रजापतिः। अग्निः=सभेशः / परमेश्वरः। गायत्री। षड्जः।।
[पूर्वापराध्यायसंगतिमाह--]

अत्र स्त्रीपुरुषराजप्रजाकृष्यध्ययनाध्यापनादिकर्मवर्णनादेतदर्थस्य पूर्वाऽध्यायार्थेन सह संगतिरस्तीति बोध्यम् ।

इति श्रीयुतपण्डितसुदर्शनदेवाचार्यकृते दयानन्द-यजुर्वेदभाष्यभास्करे द्वादशोऽध्यायः सम्पूर्णः ॥