Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 116

117 Mantra
12/116
Devata- अग्निर्देवता Rishi- विरूप ऋषिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
तुभ्यं॒ ताऽअ॑ङ्गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क्। अग्ने॒ कामा॑य येमिरे॥११६॥

तुभ्य॑म्। ताः। अ॒ङ्गि॒र॒स्त॒मेत्य॑ङ्गिरःऽतम। विश्वाः॑। सु॒क्षि॒तय॒ इति॑ सुऽक्षि॒तयः॑। पृथ॑क्। अग्ने॑। कामा॑य। ये॒मि॒रे॒ ॥११६ ॥

Mantra without Swara
तुभ्यन्ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिरे ॥

तुभ्यम्। ताः। अङ्गिरस्तमेत्यङ्गिरःऽतम। विश्वाः। सुक्षितय इति सुऽक्षितयः। पृथक्। अग्ने। कामाय। येमिरे॥११६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(तुभ्यम्) (ताः) (अङ्गिरस्तम) अतिशयेन सारग्राहिन् (विश्वाः) अखिला: (सुक्षितयः) श्रेष्ठमनुष्याः प्रजाः (पृथक्) (अग्ने) प्रकाशमान राजन्! (कामाय) इच्छासिद्धये (येमिरे) प्राप्नुवन्तु।। ११६।।
Essence
यत्र प्रजा धार्मिकं राजानं प्राप्य स्वां स्वामभिलाषां प्राप्नुवन्ति, तत्र राजा कथं न वर्द्धेत।। १२। ११६।।
Subject
अथ राजा किं कुर्यादित्याह॥
Meaning of Anvay
हे अङ्गिरस्तमाग्ने राजन्! या विश्वाः सुक्षितयः प्रजा: पृथक् कामाय तुभ्यं येमिरे तास्त्वं सततं रक्ष ।। ११६।।

सपदार्थन्वयः -- हे अङ्गिरस्तम! अतिशयेन सारग्राहिन्! अग्ने! =राजन् प्रकाशमान राजन्। या विश्वाः अखिलाः सुक्षितयः=प्रजाः श्रेष्ठमनुष्याः प्रजाः पृथक् कामाय इच्छासिद्धये तुभ्यं येमिरे प्राप्नुवन्तु, तास्त्वं सततं रक्ष ।। १२। ११६।।
[हे.......अग्ने=राजन् ! या:.....सुक्षितयः=प्रजाः पृथक् कामाय तुभ्यं येमिरे, तास्त्वं सततं रक्ष]
Meaning of Essence
अग्ने= धार्मिकराजन्। कामाय= स्वस्वाभिलाषप्राप्तये।
Special
विरूपः। अग्निः=राजा। गायत्री। षड्जः।।