Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 114

117 Mantra
12/114
Devata- सोमो देवता Rishi- गोतम ऋषिः Chhand- आर्ष्युष्णिक् Swara- ऋषभः
Mantra with Swara
आप्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिर॒ꣳशुभिः॑। भवा॑ नः स॒प्रथ॑स्तमः॒ सखा॑ वृ॒धे॥११४॥

आ। प्या॒य॒स्व॒। म॒दि॒न्त॒मेति॑ मदिन्ऽतम। सोम॑। विश्वे॑भिः। अ॒ꣳशुभि॒रित्य॒ꣳशुऽभिः॑। भव॑। नः॒। स॒प्रथ॑स्तम॒ इति॑ स॒प्रथः॑ऽतमः। सखा॑। वृ॒धे॒ ॥११४ ॥

Mantra without Swara
आप्यायस्व मदिन्तम सोम विश्वेभिरँशुभिः । भवा नः सुश्रवस्तमः सखा वृधे ॥

आ। प्यायस्व। मदिन्तमेति मदिन्ऽतम। सोम। विश्वेभिः। अꣳशुभिरित्यꣳशुऽभिः। भव। नः। सप्रथस्तम इति सप्रथःऽतमः। सखा। वृधे॥११४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आ) (प्यायस्व) (मदिन्तम) अतिशयेन मदितुं=हर्षितुं शीलं (सोम) ऐश्वर्य्ययुक्त (विश्वेभिः) सर्वैः (अंशुभिः) किरणै: (भव) द्व्यचोऽतस्तिङ इति दीर्घः (नः) अस्माकम् (सप्रथस्तमः) अतिशयेन विस्तृतसुखकारकः (सखा) मित्र: (वृधे) वर्धनाय ।। ११४।।
Essence
इह सर्वहितकारी सर्वतो वर्धते, नेर्ष्यकः ।। १२। ११४।।
Subject
कोऽत्र वर्द्धत इत्याह॥
Meaning of Anvay
हे मदिन्तम सोम! त्वमंशुभिः किरणैः सूर्य इव विश्वेभिः साधनैराप्यायस्व सप्रथस्तमः सखा सन् नो वृधे भव।। ११४॥
सपदार्थान्वयः-- हे मदिन्तम! अतिशयेन मदितुं=हर्षितुं शील! सोम ! ऐश्वर्य्ययुक्त! त्वम् अंशुभिः=किरणैः सूर्य्य इव विश्वेभिः सर्वैः साधनै: आप्यायस्व। सप्रथस्तमः अतिशयेन विस्तारसुखकारकः सखा मित्रः सन् नः अस्माकं वृधे वर्धनाय भव।। १२। ११४।।
[हे.....सोम! त्वं.....विश्वेभिः साधनैराप्यायस्व]
Meaning of Essence
सोम=सर्व हितकारिन् !॥
Special
गोतमः। सोमः=सर्वहितकारी। आर्ष्युष्णिक्। ऋषभः।।