Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 113

117 Mantra
12/113
Devata- सोमो देवता Rishi- गोतम ऋषिः Chhand- भुरिगार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
सं ते॒ पया॑सि समु॑ यन्तु॒ वाजाः॒ सं वृष्ण्या॑न्यभिमाति॒षाहः॑। आ॒प्याय॑मानोऽअ॒मृता॑य सोम दि॒वि श्रवा॑स्युत्त॒मानि॑ धिष्व॥११३॥

सम्। ते॒। पया॑सि। सम्। ऊँ इत्यूँ॑। य॒न्तु॒। वाजाः॑। सम्। वृष्ण्या॑नि। अ॒भि॒मा॒ति॒षाहः॑। अ॒भि॒मा॒ति॒सह॒ इत्य॑भिमाति॒ऽसहः॑। आ॒प्याय॑मान॒ इत्या॒ऽप्याय॑मानः। अ॒मृता॑य। सो॒म॒। दि॒वि। श्रवा॑सि। उ॒त्त॒मानीत्यु॑त्ऽत॒मानि॑। धि॒ष्व॒ ॥११३ ॥

Mantra without Swara
सन्ते पयाँसि समु यन्तु वाजाः सँवृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवाँस्युत्तमानि धिष्व ॥

सम्। ते। पयासि। सम्। ऊँ इत्यूँ। यन्तु। वाजाः। सम्। वृष्ण्यानि। अभिमातिषाहः। अभिमातिसह इत्यभिमातिऽसहः। आप्यायमान इत्याऽप्यायमानः। अमृताय। सोम। दिवि। श्रवासि। उत्तमानीत्युत्ऽतमानि। धिष्व॥११३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सम्) (ते) तुभ्यम् (पयांसि) जलानि दुग्धानि वा (सम्) (उ) (यन्तु) प्राप्नुवन्तु (वाजाः) धनुर्वेदबोधजा वेगाः (सम्) (वृष्ण्यानि) वीर्य्याणि (अभिमातिषाहः) येऽभिमातीनभिमानयुक्तान् शत्रून् सहन्ते=निवारयन्ति (आप्यायमानः) समन्ताद्वर्धमानः (अमृताय) मोक्षसुखाय (सोम) ऐश्वर्य्ययुक्त (दिवि) द्योतनात्मके परमेश्वरे (श्रवांसि) अन्नानि श्रवणानि वा (उत्तमानि) (धिष्व) धित्स्व ।।११३।।
Essence
ये मनुष्याः शरीरात्मबलं नित्यं वर्धयन्ति, ते योगाभ्यासेन परमात्मनि मोक्षानन्दं लभन्ते।। १२ । ११३।।
Subject
शरीरात्मबलयुक्ताः किमाप्नुवन्तीत्याह॥
Meaning of Anvay
हे सोम! यस्मै ते पयांसि संयन्त्वभिमातिषाहो वाजाः संयन्तु वृष्ण्यानि संयन्तु स आप्यायमानस्त्वं दिव्यमृतायोत्तमानि श्रवांसि धिष्व ।। ११३।।

सपदार्थान्वयः-- हे सोम! ऐश्वर्य्ययुक्त! यस्मै ते तुभ्यं पयांसि जलानि दुग्धानि वा सम्+यन्तु प्राप्नुवन्तु, अभिमातिषाहः येऽभिमातीनभिमानयुक्तान् शत्रून् सहन्ते=निवारयन्ति, वाजाः धनुर्वेदबोधजा वेगाः सम्+यन्तु प्राप्नुवन्तु, वृष्ण्यानि वीर्य्याणि सम्+यन्तु प्राप्नुवन्तु, स आप्यायमानः समन्ताद्वर्धमानः त्वं दिवि द्योतनात्मके परमेश्वरे अमृताय मोक्षसुखाय उत्तमानि श्रवांसि अन्नानि श्रवणानि वा धिष्व धत्स्व ।। १२ । ११३ ।।

[हे सोम!.......आप्यायमानस्त्वं दिव्यमृताय......धिष्व]
Meaning of Essence
आप्यायमानः=शरीरात्मबलं नित्यं वर्धमानः। दिवि=परमात्मनि। अमृताय= मोक्षानन्दाय ॥
Special
गोतमः। सोमः=योगाभ्यासी। भुरिगार्षी पङ्क्तिः। पञ्चमः॥