Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 11

117 Mantra
12/11
Devata- अग्निर्देवता Rishi- ध्रुव ऋषिः Chhand- आर्ष्यनुष्टुप् Swara- गान्धारः
Mantra with Swara
आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलिः। विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑भ्रशत्॥११॥

आ। त्वा॒। अ॒हा॒र्ष॒म्। अ॒न्तः। अ॒भूः॒। ध्रु॒वः। ति॒ष्ठ॒। अवि॑चाचलि॒रित्यवि॑ऽचाचलिः। विशः॑। त्वा॒। सर्वाः॑। वा॒ञ्छ॒न्तु॒। मा। त्वत्। रा॒ष्ट्रम्। अधि॑। भ्र॒श॒त् ॥११ ॥

Mantra without Swara
आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलिः । विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधिभ्रशत् ॥

आ। त्वा। अहार्षम्। अन्तः। अभूः। ध्रुवः। तिष्ठ। अविचाचलिरित्यविऽचाचलिः। विशः। त्वा। सर्वाः। वाञ्छन्तु। मा। त्वत्। राष्ट्रम्। अधि। भ्रशत्॥११॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आ) (त्वा) त्वां राजानम् (अहार्षम्) हरेयम् (अन्तः) सभामध्ये (अभूः) भवेः (ध्रुवः) न्यायेन राजपालने निश्चितः (तिष्ठ) स्थिरो भव (अविचाचलिः) सर्वथा निश्चलः (विशः) प्रजाः (त्वा) त्वाम् (सर्वाः) अखिलाः (वाञ्छन्तु) अभिलषन्तु (मा)(त्वत्) (राष्ट्रम्) राज्यम् (अधि) (भ्रशत्) नष्टं स्यात् ।। ११ ।।
Essence
उत्तमाः प्रजाजना: सर्वोत्तमं पुरुषं सभाध्यक्षं राजानं कृत्वाऽनूपदिशन्तु--
[त्वम्......अविचाचलिर्ध्रुवस्तिष्ठ]
त्वं जितेन्द्रियः सन् सर्वदा धर्मात्मा पुरुषार्थी भवेः।
[त्वत्…..राष्ट्रं माऽधिभ्रशत्]
न तवानाचाराद् राष्ट्रं कदाचिन्नष्टं भवेद्,
[सर्वा विशस्त्वा वाञ्छन्तु]
यतः सर्वाः प्रजास्त्वदनुकूलाः स्युः।। १२। ११॥
Subject
पुना राजप्रजाकर्माह ॥
Meaning of Anvay
हे शुभगुणलक्षण सभेश राजन्! त्वा राज्यपालनायाहमन्तराहार्षम्। त्वमन्तरभूः। अविचाचलिर्ध्रुवस्तिष्ठ। सर्वा विशस्त्वा वाञ्छन्तु। त्वत् तव सकाशाद्राष्ट्रं माऽधिभ्रशत् ।। ११ ।।
सपदार्थान्वयः -- हे शुभगुणलक्षण सभेश राजन्! त्वा त्वां राजानं राज्यपालनायाहम् अन्तः सभामध्ये आ+अहार्षं हरेयम्।
त्वम् अन्तः सभामध्ये अभूः भवेः। अविचाचलिः सर्वथा निश्चलः ध्रुवः न्यायेन राज्यपालने निश्चितः तिष्ठ स्थिरो भव।
सर्वाः अखिलाः विशः प्रजाः त्वा त्वां वाञ्छन्तु अभिलषन्तु। त्वत्=तव सकाशाद् राष्ट्रं राज्यं या न अधि+भ्रशत् नष्टं स्यात्।। १२। ११।।
[हे सभेश राजन्! त्वां राज्यपालनायाऽहमन्तराहार्षम्]
Meaning of Essence
अविचाचलिः=जितेन्द्रियः। ध्रुवः=धर्मात्मा पुरुषार्थी। वाञ्छन्तु=अनुकूलाः स्युः।।
Special
ध्रुवः। अग्निः=राजा। आर्ष्यनुष्टुपः। गान्धारः ।।