Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 109

117 Mantra
12/109
Devata- अग्निर्देवता Rishi- पाकाग्निर्ऋषिः Chhand- निचृदार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ऽअमर्त्य। स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म्॥१०९॥

इ॒र॒ज्यन्। अ॒ग्ने॒। प्र॒थ॒य॒स्व॒। ज॒न्तुभि॒रिति॑ ज॒न्तुऽभिः॑। अ॒स्मेऽइत्य॒स्मे। रायः॑। अ॒म॒र्त्य॒। सः। द॒र्श॒तस्य॑। वपु॑षः। वि। रा॒ज॒सि॒। पृ॒णक्षि॑। सा॒न॒सिम्। क्रतु॑म् ॥१०९ ॥

Mantra without Swara
इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायोऽअमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिङ्क्रतुम् ॥

इरज्यन्। अग्ने। प्रथयस्व। जन्तुभिरिति जन्तुऽभिः। अस्मेऽइत्यस्मे। रायः। अमर्त्य। सः। दर्शतस्य। वपुषः। वि। राजसि। पृणक्षि। सानसिम्। क्रतुम्॥१०९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इरज्यन्) ऐश्वर्य्यं कुर्वन्। इरज्यतीति ऐश्वर्य्य कर्मा०॥ निघं० २ । २१ ।। (अग्ने) अग्निवत्पुरुषार्थं (प्रथयस्व) विस्तारय (जन्तुभिः) मनुष्यादिभिः (अस्मे) अस्मभ्यम् (रायः) श्रियः (अमर्त्य) नाशप्राकृतमनुष्यस्वभावरहित (सः) (दर्शतस्य) द्रष्टुं योग्यस्य (वपुषः) रूपस्य। वपुरितिरूपना०॥ निघं० ३ । ७॥ (वि) (राजसि) (पृणक्षि) संबध्नासि (सानसिम्) सनातनीम् (क्रतुम्) प्रज्ञाम् ।। १०९।।
Essence
यो मनुष्येभ्यः सनातनीं वेदविद्यां ददाति, सुरुपाचारे विराजते, स एवैश्वर्यं लब्ध्वाऽन्येभ्यः प्रापयितुं शक्नोति ।। १२। १०९।।
Subject
मनुष्यः कीदृशो भवेदित्याह॥
Meaning of Anvay
हे अमर्त्याग्ने! य इरज्यंस्त्वं दर्शतस्य वपुषः सानसिं क्रतुं पृणक्षि तत्रैव विराजसि सोऽस्मे जन्तुभी रायः प्रथयस्व।। १०९।।
सपदार्थान्वयः -- हे अमर्त्य ! नाशप्राकृतमनुष्यस्वभावरहित! अग्ने! अग्निवत् प्राप्तपुरुषार्थ! य इरज्यन् ऐश्वर्यं कुर्वन् त्वं दर्शतस्य द्रष्टुं योग्यस्य वपुषः रूपस्य सानसिं सनातनीं क्रतुं प्रज्ञां पृणक्षि संबध्नासि, तत्रैव वि+राजसि, सोऽस्मै अस्मभ्यं जन्तुभिः मनुष्यादिभिः रायः श्रियः प्रथयस्व
विस्तारय ।। १२। १०९।।
[हे.....अग्ने ! य त्वं सानसिं क्रतुं पृणक्षि तत्रैव विराजसि, सोऽस्मे.....रायः प्रथयस्व]
Meaning of Essence
क्रतुम्=वेदविद्याम्। पृणक्षि=ददासि। रायः=ऐश्वर्यम्।
Special
पावकाग्निः। अग्निः=पुरुषार्थी । निचृदार्षी पङ्क्तिः। पञ्चमः॥