Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 108

117 Mantra
12/108
Devata- अग्निर्देवता Rishi- पावकाग्निर्ऋषिः Chhand- निचृत् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः। त्वेऽइषः॒ संद॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः॥१०८॥

ऊर्जः॑। न॒पा॒त्। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। सु॒श॒स्तिभि॒रिति॑ सुश॒स्तिऽभिः॑। मन्द॑स्व। धी॒तिभि॒रिति॑ धी॒तिऽभिः॑। हि॒तः। त्वेऽइति॒ त्वे। इषः॑। सम्। द॒धुः॒। भूरि॑वर्पस॒ इति भूरि॑ऽवर्पसः। चि॒त्रोत॑य॒ इति॑ चि॒त्रऽऊ॑तयः। वा॒मजा॑ता॒ इति॑ वा॒मऽजा॑ताः ॥१०८ ॥

Mantra without Swara
ऊर्जा नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः । त्वेऽइषः सन्दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥

ऊर्जः। नपात्। जातवेद इति जातऽवेदः। सुशस्तिभिरिति सुशस्तिऽभिः। मन्दस्व। धीतिभिरिति धीतिऽभिः। हितः। त्वेऽइति त्वे। इषः। सम्। दधुः। भूरिवर्पस इति भूरिऽवर्पसः। चित्रोतय इति चित्रऽऊतयः। वामजाता इति वामऽजाताः॥१०८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(ऊर्जः) पराक्रमस्य (नपात्) न विद्यते पातो=धर्मात्पतनं यस्य सः (जातवेदः) जातप्रज्ञान=जातवित्त (सुशस्तिभिः) शोभनाभिः प्रशंसाभिः क्रियाभिः सह (मन्दस्व) आनन्द (धीतिभिः) स्वाङ्गुलीभिः। धीतय इत्यङ्गुलिनाम० ॥ निघं० २ । ५ ।। (हितः) सर्वस्य हितं दधन् (त्वे) त्वयि (इषः) अन्नादीनि (सम्) (दधुः) दधतु (भूरिवर्पसः) बहूनि प्रशंसनीयानि वर्पांसि= रूपाणि यासु ताः। वर्प इति रूपना० ॥ निधं० ३ । ७ ॥ (चित्रोतयः) चित्रा=आश्चर्य्यवद्रक्षणाद्याः क्रिया यासु ताः (वामजाताः) वामेषु=प्रशस्येषु कर्मसु वा जाताः प्रसिद्धाः। वाम इति प्रशस्यना०॥ निधं० ३ । ८ ॥ १०८॥
Essence
येषां कुमाराणां कुमारीणां मातरो विद्याप्रिया विदुष्यः सन्तु त एव सततं सुखमाप्नुवन्ति ।
[स सुशस्तिभिः....ऊर्जो नपात् सदा मन्दस्व]
यासां मातृणां येषां पितॄणां चापत्यानि विद्यासुशिक्षाब्रह्मचर्यैः शरीरात्मबलयुक्तानि धर्माचारीणि सन्ति, त एव सदा सुखिनः स्युः ।। १२। १०८।।
Subject
मातापितृसन्तानाः कीदृशा भवेयुरित्याह॥
Meaning of Anvay
हे जातवेदस्तनय ! यस्मिँस्त्वे त्वयि भूरिवर्पसश्चित्रोतयो जाता मात्रादयोsध्यापिका इषः संदधुः स सुशस्तिभिर्धीतिभिराहूत ऊर्जो नपाद्हितः सदा मन्दस्व ।। १०८।।

सपदार्थान्वयः -- हे जातवेदः! =तनय जातप्रज्ञान=जातवित्त! यस्मिँस्त्वे=त्वयि भूरिवर्पसः बहूनि प्रशंसनीयानि वर्पांसि=रूपाणि यासु ताः, चित्रोतयः चित्रा=आश्चर्यवद्रक्षणाद्याः क्रिया यासु ताः, [वामजाता] वामेषु=प्रशस्येषु कर्मसु वा जाताः=प्रसिद्धाः मात्रादयोऽध्यापिका इषः अन्नादीनि सम्+दधुः दधतु, स सुशस्तिभिः शोभनाभिः प्रशंसाभिः क्रियाभिः सह धीतिभिः स्वाङ्गुलीभिः आहूत ऊर्जः पराक्रमस्य नपात् न विद्यते पातो=धर्मात्पतनं यस्य सः, हितः सर्वस्य हितं दधन् सदा मन्दस्व आनन्द ।। १२। १०८।।

[हे जातवेदः तनय! यस्मिंस्त्वे=त्वयि मात्रादयोऽध्यापिका : इषं संदधुः]
Meaning of Essence
जातवेदः=कुमारः / कुमारी। सुशस्तिभिः=विद्यासुशिक्षाब्रह्मचर्यैः। ऊर्जः=शरीरात्मबलम्। नपात्=धर्माचारी। मन्दस्व=सदा सुखी भव॥
Special
पावकाग्निः। अग्निः=सन्तानः। निचृत्पङ्क्तिः। पञ्चमः॥